________________
१८६
षड्भाषाचन्द्रिकायां लड्लटोश्च जर्जारौ ॥२।४ । ३८॥
लड्लटोर्वर्तमानभविष्यतोश्चकाराद्विध्यादिषु च सर्वत्र पुरुषेषु वचनेषु च विहितस्य प्रत्ययस्य स्थाने जजावित्येतौ रितौ वा भवतः । रित्वाद् द्वित्वम् । इति लट्प्रथमपुरुषस्यैकस्थाने ऐतौ भवतः । होज । होज्जा । पक्षे । होइ । सर्वलकारेषु जर्जाराविति केचित् ।। 'लड्लटोश्च जर्जारौ' इत्यधिकृत्य
मध्ये चाजन्तात् ॥ २।४ । ३९ ॥ . अजन्ताद्धातोः प्रकृतिप्रत्यययोर्मध्ये चकारात् प्रत्ययानां स्थाने जर्जरौ तु भवतो लड्लटोर्विध्यादिषु च । इति होइकारयोर्मध्ये भवतः । होज्जइ । होजाइ । इत्येकवचनम् । तिङन्तेपि द्विवचनस्य बहुवचनमेव ॥ झिझौ न्तिन्तेइरे ॥२॥ ४ ॥ ४ ॥
लटः प्रथमपुरुषबहुत्वे वर्तमानयोः झिझयोः न्ति न्ते इरे इति त्रय आदेशा भवन्ति । होन्ति । होन्ते । होइरे। अत्रैव 'होहुवहवा भुवेस्तु' इत्यतः 'भुवेः' इत्यधिकृत्य
हुरचिति ॥३।१।५॥ चिर्जिते प्रत्यये परे भुवे रित्यादेशो भवति । हुति । हुन्ते । हुइरे । इत्याद्यपि बोद्धव्यम् । बहुलाधिकारात् कचिदेकत्वेपि इरे दृश्यते । सूसइरे ताण तारिसो कण्ठो । शुष्यति तासां तादृशः कण्ठः । 'रुषगेचो दिः' इत्युकारस्य दीर्घः । 'त्वनतः' इत्यगागमः । होअन्ति । होअन्ते । होअइरे । 'मध्ये चाजन्तात्' इति जर्जारौ । होजन्ति । होजन्ते । होज्जइरे । अत्र पूर्वोदाहरणद्वये 'संयोगे' इति हूखे सति जारोपीदमेवोदाहरणम् । होजाइरे इत्यत्र निमित्ताभावान्न 'संयोगे' इति हस्खः । होज । होजा ॥ मध्यमपुरुषैकवचने
१T. omits वा २ अपि तौ M., T. ३ च स्थाने M. ४ इत्येतौ स्तः T. ५ तौ भवतः M.; अपि स्तः T. ६ आदेशाः स्युः T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org