SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ श्रीहयग्रीवाय नमः। नमो ब्रह्मादिदेवानामज्ञानध्वान्तभानवे । सार्थबद्धदीक्षाय दक्षिणामूर्तये नमः ॥१॥ अथ तिङन्तप्रक्रिया निरूप्यते । भू सत्तायाम् । भू इति स्थिते होहुवहवा भुवस्तु ॥३।१।१॥ भवतेर्धातो: हुव हव इति त्रय आदेशा भवन्ति । अकार उच्चारणार्थः । हो इति स्थिते । अनुक्तमन्यन्यायेन लटस्तिबादौ सति लटस्तिप्ताविजेच् ॥ २।४।१॥ लटः प्रथमपुरुषैकवचनयोस्तिप्तयोः प्रत्येकं इच् एच् इति भवतः । चकारौ 'हुर्रचिति' इति विशेषार्थो । अत्र लग्रहणं लकारमात्रोपलक्षणम् । तेन लटः लस्येत्यर्थः । अनुक्तमन्यन्यायेन शबादिप्राप्तौ न शपाम् ॥ अत्र शबादीनां प्रयोगो न भवति । इति शबादिप्रतिषेधः । होइ । अत एवैच से ॥ २।४ । ७॥ लटः प्रथमपुरुषस्यैकत्वे विहितो य एच् मध्यमपुरुषस्यैकत्वे विहितो यः से तावकारान्तादेव भवतो नान्यस्मात् । इत्यदन्तविषयत्वात् हो इ इत्यत्र तौ न भवतः ॥ 'हलोक्' इत्यतः 'अ' इत्यनुवर्तमाने त्वनतः॥२।४।६९ ॥ अकारान्तवर्जितादजन्ताद्धातोरगागमो भवति तु । होअइ । होअए । अत्रागमे कृते अदन्तत्वादेच् भवति ॥ १ चन्द्रचारुवराङ्गाय for सर्वार्थबद्धदीक्षाय P., My. २ T. gives this section after the treatment of pirait and other dialects. ३ आदेशाः स्युः T. ४ हुरचेति M. ५ विशेषणार्थी T. ६ "मात्रोपलक्षणार्थम् T. ७ नास्ति T. ८ पुरुषैकत्वे My. ९ M. drops तु. २४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy