________________
१७४
षड्भाषाचन्द्रिकायां
1
न्निपात्याः । अच्छिवडणं । वल्लविअं । णीसंको । एलविलो धनिवृषयोः || ३२ ॥ अनयोरयं निपात्यते । एलविलो | सुहरओ धारिकागृहचटकयोः || ३३ || अनयोरयं निपात्यते । सुहरओ । निम्मी अहमest निश्मश्रुकयुवस्वस्थयोः ॥ ३४ ॥ अनयोरेतौ क्रमात् स्याताम् । णिम्मीसुओ । हट्ठमहट्ठो । णिहुअजहणरोहौ सुरतोर्वोः ॥ ३५ ॥ सुरते ऊरौ चैतौ क्रमात् स्याताम् । णिहुअं । जहणरोहो | अच्छुद्धसिरी मनोरथाधिकफलप्राप्तौ ।। ३६ ।। फलप्रातावयं निपात्यते । अच्छुद्धसिरी । अब्बुद्धसिरीति केचित् । पल्लोडजीहाउज्झहरौ रहस्यभेदिनि ॥ ३७ ॥ पिशाचे परेओ ।। ३८ । अस्मिन्नयं प्रयोज्यः । चोरधूर्तयोर्वहुजाणो ॥ ३९ ॥ अयं चोरे धूर्ते च निपात्यते । जारधूर्तयोरिति केचित् । बहुजाणो । जोईउज्झलौ विद्युत्प्रबलयोः ॥ ४० ॥ अनयोरेतौ क्रमात् स्तः । जोई । उज्झलो । भिंगं नीलस्वकृतयोः ॥ ४१ ॥ नीले खकृते चायं स्यात् । परिधाने णिअणं ॥ ४२ ॥ जहणोसुअं चलणकं च जघनांशुके ॥ ४३ ॥ अस्मिन्नेतौ स्याताम् । जहणोसुअं । चल्लणकं । पाउरणं कवचे ॥ ४४ ॥ कवचेयं प्रयोज्यः । पाउरणं । कैम्पापचारयोरोअल्लो ॥ ४५ ॥ अनयोरयं स्यात् । ओअल्लो । कराघाते चपेटा ॥ ४६ ॥ अस्मिन्नयं स्यात् । रइलक्खगोसण्णौ जघनमूर्खयोः ॥ ४७ ॥ अनयोरेतौ क्रमात् स्याताम् । रइलक्खं । गोसण्णो । वावडपुरिल्लौ कुविदैत्ययोः ॥ ४८ ॥ अनयोरेतौ क्रमात् स्तः । वावडो । पुरिल्लो | परभत्तचच्चिकौ भीरुस्थापकयोः ॥ ४९ ॥ अनयोरे तौ क्रमात् स्तः । परभत्तो । चच्चिक्को । काळभट्टिअइद्ध ग्गिधूमास्तमिस्र - विष्णुतुहिनेषु ॥ ५० ॥ एषु क्रमात् त्रयो निपात्याः । काळं । भट्टिओ । इद्धग्धूिमो । पत्थरओवाअऔं पादताडनापातपयोः
1
१ बहुजाणो चोरधूर्तयोः T . २ अनयोर्बहुजाणो निपात्यः T . कम्पापचारयोः T. ४ कम्पे अपचारे च ओअल्लो इति स्यात् । T.
Jain Education International
For Private & Personal Use Only
३ ओअलो
www.jainelibrary.org