________________
१६०
षड्भाषाचन्द्रिकायां अकारात् परो विसर्गो डिदोकारः स्यात् । इति विसर्गस्यौकारः । एवमग्रतः पुरतः कुत इत्यादि ॥
एकाद्दस्सिसिअइआ ॥२।१।१५॥
एकशब्दात् परस्य दाप्रत्ययस्य सि सिअ इआ इत्यादेशा भवन्ति । एकदा । एकसि । एकसिअ । एक्कइआ । पक्षे । एक्कआ । अत्र देवादिपाठाद् द्वित्वम् । पक्षे । एगसिअ । इत्याद्यपि ॥
ल्हुत्तं कृत्वसुचः ॥२।१ । १६ ॥ कृत्वसुच्प्रत्ययस्य हुत्तमित्यादेशो लित् स्यात् । संअहुत्तो । शतकृत्वः । सहासहुत्तो । सहस्रकृत्वः । इत्यादि । अत्र 'शोलप्त-' इति दीर्घः ॥
भवेडिल्लोल्लडौ ॥२।१।१७ ॥
भवार्थे नाम्नः परौ इल्ल उल्ल इत्येतौ डितौ भवतः । पुरो भवम् । पुरिल्लं । अथो भवम् । हेडिल्लं । अत्र 'उभयाधसोरवहहेटौ' इत्यधसो हेट्ठादेशः । उल्ल । आत्मभवम् । अप्पुल्लं ॥
खार्थे तु कश्च ॥२।१।१८॥
खार्थे नाम्नः परः केप्रत्ययो वा भवति । चकाराड्डिल्लोल्लौ च । चन्द्रः । चन्द्रो । चन्दओ। इह । इहअ । ककारोच्चारणं पैशाचीभाषार्थम् । तेन तत्र वदनं वतनकं । डिल्ल । पुरिल्लो । पुरा । पुरो वा । उल्ल । पिउल्लो । प्रियः । मुहल्लं । मुखम् । हत्थुल्लो । हत्थो । हस्तः । पक्षे । चन्दो । इत्यादि । कुत्सादिविशिष्टेषु संस्कृतवदेव कः सिद्धः ॥
उपरेः संव्याने ल्ललू ॥२।१ । १९ ॥
उपरिशब्दात् संव्यानेर्थे द्विरुक्तो लो भवति । लित्वान्नित्यम् । उपरिल्लो । 'संव्याने' इति किम् । उपरि । अत्र वक्रादित्वाद्विन्दुः ।।
१ शतकृत्वः । सअहुत्तो M. २ कप्रत्ययस्तु भवति M. ३ उवरिं M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org