SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १५८ षड्भाषाचन्द्रिकायां इकः पथो णस्य ॥२।१।४ ॥ 'पथो ण नित्यम्' इति पथो यो णप्रत्ययो विहितस्तस्य इक इत्यादेशो भवति । पांथः । पहिओ । यद्यपि पथिकशब्दादपि सिद्धावस्थापेक्षयेदं रूपं भवति तथापि पान्थशब्दस्य रूपान्तरनिवृत्यर्थमिदमुदाहृतम् ॥ खस्य सर्वाङ्गात् ॥ २ । १।५॥ इक इत्यनुवर्तते । सर्वाङ्गाद् व्यापिन्यर्थे विहितस्य खप्रत्ययस्य इक इत्यादेशो भवति । सर्वाङ्गीणः । सव्वंगिओ॥ छस्यात्मनो णः ॥२॥ १।६॥ आत्मनः परस्य छप्रत्ययस्य णअ इत्यादेशो भवति । आत्मीयम् । अप्पणअं । अत्र 'वात्म भस्मनि पः' इति पः । हित्थ हास्त्रलः ॥२ । १।७॥ सप्तम्यन्तान्नानो विहितस्य त्रल्प्रत्ययस्य हि स्थ ह इति त्रय आदेशा भवन्ति । यत्र । जहि । जद्ध । जह । कुत्र । कहि । कद्ध । कह । अत्र 'त्रतसि च किमो ल्कः' इति किमः कादेशः । अन्यत्र । अण्णहि । अण्णद्ध । अण्णह । इत्यादि ॥ केर इदमर्थे ॥ २ । १।८॥ इदमर्थे विहितस्य प्रत्ययस्य केर इत्यादेशो भवति । युष्मदीयः । तुम्हकेरो । अत्र 'अर्थपरे तो युष्मदि' इति यस्य तकारः । 'श्मष्म-' इत्यादिना ष्मस्य म्हः । अस्मदीयः । अम्हकेरो । अत्रैव दैवादिपाठाद् द्वित्वे अम्हक्केरो । अत्रापि पूर्ववत् म्हादेशः । बहुलाधिकारात् कचिन्न भवति । मदीयपक्षः । मईअपक्खो । मैंदीयमार्गः । मइजमग्गो । पाणिनीयं । पाणिणी। १ भवेत् T. २ इत्यादेशः स्यात् My., P. ३ °न्तात् सर्वनाम्नो T. ४ आदेशाः स्युः P., My. ५ इत्यादेशः स्यात् P., My. ६ मइज्जपक्खो M. ७ My. and P.omit मदीयमार्गः । मइजमग्गो। ८ पाणिणिजं M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy