________________
१५६
षड्भाषाचन्द्रिकायां कुओ। कुदो । एवमग्रतः । अग्गओ । पुरतः । पुरओ । सर्वतः । सव्वओ । इत्यादि । नपुनशब्दे
शिश्लुङ् नपुनरि तु ॥ १।१ । २८ ॥
'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इत्यनुवर्तते । नपुनशब्दे अन्त्यव्यञ्जनस्य शानुबन्ध इकारो लुक् च वा भवति । शित्वात् पूर्वस्य दीर्घः । णउणाइ । णउणा । पक्षे । णउण । णउणो । पुनर्शब्दे पुणाइ इति च दृश्यते । णउणेत्यत्र पदादित्वात् परस्य लोपाभावेपि बहुलाधिकारात् कचिदादेरपि भवतीति पकारस्य लोपो भवति । तेन णउणा । न पुनः।
प्रसङ्गाद्यद्यहमित्यादौ किंचिदुच्यते । यदि इमाः । वयमन्यत्र इत्यादौ 'आदेः' इत्यधिकृत्य
लुगव्ययत्यदाद्यात्तदचः॥१। २।३॥
अव्ययात् त्यदादेश्च परस्य तदचस्तयोरेवाव्ययत्यदायोरादेरचो बहुलं लुक् स्यात् । अव्ययात् तावत् । जइ अहं । जइ हं । यद्यहम् । जइ इमा । जइमा । यदीमाः । त्यदादेः परस्य । अम्ह अण्णद्ध । अम्हण्णद्ध । वयमन्यत्र । 'आदेः' इति किम् । जइ इमा इत्यादावनादेर्माभूत् । एवं सर्वत्राव्ययसंबन्धिनस्त्यदादेरचो लोपो द्रष्टव्यः ।
इत्यव्ययानि ॥
१ इत्यनुवर्तते T., M. २ M. drops वा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org