SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ अव्ययेषु विशेषाः । १५५ किमपि । तं वि । तमपि । केणे वि । केनापि । अहं वि । इत्यादि । 'पदात्' किम् । अवि णाम । अपि नाम ॥ इतेः ॥ १।२।६॥ पूर्व सर्वमनुवर्तते । पदात्परस्येति शब्दस्यादेरचो लुक् स्यात् । योगविभागान्नित्यम् । किं ति । किमिति । जं ति । यदिति । तं ति । तदिति । अत्र 'यत्तत्सम्यक् -' इति बिन्दुः । जुत्तंति । युक्तमिति । ‘पदात्' इति किम् । इअ विंझगुहाणिळआए । इति विन्ध्यगुहानिलयायाः । अत्र 'स्वेदितः' इत्यतः 'इतः' इत्यधिकृत्य 'मूषिकविभीतक-' इत्यादेः 'अत्' इति च इतौ तो वाक्यादौ ॥ १।२ । ४५॥ वाक्यादिभूते इतिशब्दे तकारसंबन्धिन इकारस्य अत्वं भवति । इतीकारस्यात्वम् । 'वाक्यादिभूते' इति किम् । पिएत्ति । प्रिये इति । तोचः॥१।२।७।। 'इतेः' इत्यनुवर्तते । अचः परस्येतिशब्दस्यादेरचः तकारो भवति । झत्ति । झडिति । नूनं । एवं । किं । सं । अत्र मांसादित्वाद्विकल्पेन बिन्दुलोपे । गुणं । णूण । एवं । एव । किं । कि । सं । स। ___ यावत् । तावत् । एवमेव । अत्र 'एवमेव देवकुल-' इत्यादिना सूत्रेण अन्तर्वर्तमानस्य वकारस्याचा सह लोपे । जा । जाव । ता । ताव । एमे अ । एवमेव । कुत्र । कुतः । 'त्रतसि च किमो ल्कः' इति किमः कादेशे 'हित्थहास्त्रलः' इति त्रलः । त्रिष्वादेशेषु । किहि । कत्थ । कह । तस् । कादेशे कत इति स्थिते अतो डो विसर्गः ॥२।२।१२॥ अकारात् परो विसर्गो डिदोकारो भवति । कओ । अत्रैव 'दो तो तसः' इति तसो दो तो। कदो । कत्तो । सिद्धावस्थापेक्षया । ... १ तमपि । तं वि M. २ केनापि । केण वि M. ३ हं वि M. ४ अपि नाम is omtted in P., My. ५ इत्यधिकृत्य M., T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy