________________
१५४
षड्भाषाचन्द्रिकायां
योरेङ्॥२।४।६५ ॥ इश्च उश्च युः । धातोरिवर्णोवर्णयोरेदोत्तौ यथासंख्यं भवतः । णेऊण । णेउआण । नीत्वा । जेऊण । जेउआण । जित्वा । सोऊण । सोउआण । श्रुत्वा । एवं सर्वत्रेवर्णोवर्णयोरुदाहार्यम् ।।
णो हश्च चिजिपूश्रुधूस्तुहुलूभ्यः ॥ २ । ४ । ७२ ॥ ऐभ्यः परो ण इत्यागमो भवति । तत्संनियोगेन दीर्घस्य हखश्च । चिणिऊण । चित्वा । जिणिऊण । जित्वा । पुणिऊण । पवित्वा । सुणिऊण । श्रुत्वा । धुणिऊण । धवित्वा । स्तुणिऊण । स्तुत्वा । हुणिऊण । हुत्वा । लुणिऊण । लवित्वा । अत्र दीर्घस्य हूखः । अत्र णकारात्परस्याकारस्य 'एच्च क्त्वातुं--' इत्यादिना एकारः । तथा च चिणेऊण इत्यादि सिद्धम् । ज्ञात्वा । अत्र 'जाणमुणौ ज्ञः' इति ज्ञाधातोर्जाणादेशे जाणिऊण । बहुलाधिकारात् जाणादेशस्य क्वचिद्विकल्प इति वचनादस्याभावे णाऊण । अत्र 'झम्नोः' इति ज्ञस्य णादेशः । दीर्घस्य ज्ञस्यादेशाण्णस्यापि दीर्घः । अत्र सर्वत्र क्त्वाप्रत्ययादेशसंबन्धिनो णकारात् परतः क्त्वासुपोस्तु सुणात्' इति वा बिन्दौ दळूणं । दट्ठआणं । काऊणं । काउआणं । इत्याद्यपि संचारणीयम् । वंदित्ता इति तु सिद्धावस्थापेक्षया वलोपे। सदा । अत्र 'इत्तु सदादौ' इत्यादेराकारस्य वा इत्वे सति। सआ। उभयत्र 'प्रायो लुक्-' इति दलोपः । अपि अत्र 'लुगव्ययत्यदाद्यात्तदचः' इत्यधिकृत्य 'वालाब्बरण्ये' इत्यतः 'वा' इति च 'आदेः' इति च
अपेः पदात् ॥ १।२।५॥ पदात् परस्यापीत्युपसर्गस्य आदेरचो वा लुक् स्यात् । किं वि । १ स्तः P., My., २ एतेभ्यः M. ३ दीर्घस्य च ह्रस्वः M., T. ४ My. and P. have पूणिऊण । धुणिऊण । लुणिऊण । after हुत्वा. ५ ज्ञि M. ६ झिनोः M. ७ दीर्घान्तज्ञाधात्वादेशत्वाण्ण° M. ८ अत्र is dropped in My., P. ९ इति च M., T. १० किमपि । किं वि M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org