________________
१५३
अव्ययेषु विशेषाः । ता हो दृशः ॥२ । ४ । ४५ ॥
दृशोन्त्यस्य तुमादिषु परेषु ता तकारेण सह द्विरुक्तः ठो भवति । इति ठः । 'ऋतोत्' इत्यत्वं च । अत् । भमिआ । भ्रमित्वा ।
धेत्तुंतव्यक्त्वासु ग्रहः ॥२।४।४३ ॥
तुमादिषु परेषु ग्रहेर्धातोर्वंदित्यादेशो भवति । घेत्तुं । घेत्तुआण । घेत्तूण । अत्र तुंग्रहणेन तुमुन् ग्राहितो न तु क्त्वादेशः । क्त्वाग्रहणेनैव तस्य सिद्धत्वात् । 'घेत्तुंतव्यक्त्वासु ग्रहेः' इत्यतः 'तुंतव्यक्त्वासु' इत्यधिकृत्य
अन्त्यस्य वचिमुचिरुदिश्रुभुजां डोल् ॥२।४ । ४४ ॥
तुमादिषु परेषु एषामन्त्यस्य हलो डोत्वं लित् स्यात् । वचि । वोत्तुं । वोत्तुआण । वोत्तूण । मुचि । मोत्तुं । मोत्तुआण । मोत्तूण । रुदि । रोत्तुं रोत्तुआण । रोत्तूण । श्रु । सोत्तुं । सोत्तुआण। सोत्तूण । भुजे। भोत्तुं । भोत्तुआण । भोत्तूण । अदन्तेषु 'अदेल्लुक्यात्खोरतः' इत्यतः 'अतः' इत्यधिकृत्य 'मोममुष्विच्च' इत्यतः 'इत्' इति च
एच क्त्वातुंतव्यभविष्यति ॥ २।४ । १८ ॥
क्वादिषु परेवत एंद्भवति चकारादिकारश्च । क्त्वा । हसेऊण । हसिऊण । तुं । हसेउं । हसिउं । एवमदन्ते सर्वत्र क्त्वातुमुनोरुदाहार्यम् । 'अतः' इति किम् । काऊण ॥
आ भूतभविष्यति च कृतः ॥२ । ४ । ४७॥ 'अन्त्यस्य' इत्यनुवर्तते । 'घेत्तुंतव्य- इत्येतः 'तुंतव्य' इत्यादि च । कृत्रोन्त्यस्य भूते भविष्यति चकारात्तुमादिषु चे आकारो भवति । काउं । काउआण । काऊण । कृत्वा ॥ 'धातोः' इत्यधिकृत्य
१°र्धेदिति भवति T. २ इत्यधिकृत्य M., T. ३ डोत् M. ४ °मन्यहलो M. ५ भुजि M., T. ६ इत्यधिकृत्य M., T. ७ इति च M., T. ८ एत्वं भवति M. ९ इति च M., T. १० आ इत्यादेशो वा भवति before भूते &c. T. ११ परतः for च आकारो भवति T.
२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org