________________
१५२
षड्भाषाचन्द्रिकायां अनयोरैचः अअ इत्यादेशो भवति । उच्चअ । नीचअ । पृथक् । अत्र 'खघ-' इत्यादिना थस्य हः ॥
ढः पृथकि तु ॥ १।३ । २१॥
अत्र थस्य ढो वा स्यात् । पक्षे हत्वम् । यत्तत्सम्यक्-' इत्यादिनान्त्यहलो मत्वम् । 'वृष्टिपृथक्-' इत्यादिना ऋत इत्वमत्वं च । पिढं । पुढं । पिहं । पुहं । मिथ्या । अत्र 'थ्यश्चत्सप्साम्' इति सूत्रेण थ्यस्य छः । मिच्छा । ईषत् । अत्र खप्नादित्वादत इल् । इसि ॥
कूरो गौणेषतः॥१।३।१०२ ॥
ईषच्छब्दस्य गौणस्य कूर इत्यादेशो भवति । चिंचव्व कूर वंका । चंचेवेषद्वका ॥ यथा । तथा । अथवा । कदा । तदा । मुधा । उभयथा । अन्यथा इत्यादौ 'न वाव्ययोत्खातादौ' इत्यादेराकारस्य विकल्पेन ह्रखः । जह । जहा । तह । तहा । अहव । अहवा । इत्यादि ॥ मृषा उदोल मृषे ॥ १ । २ । ८६॥
अत्र ऋत उत्वमूत्वमोत्वं च स्यात् । शोः सत्त्वे । मूसा । मुसा । मोसा ॥ श्वः । अत्र 'एकाचि श्वस्खे' इति संयुक्तस्यान्त्यहलः प्रागुत्वम् । सुवो । क्त्वाप्रत्ययस्य
तुमत्तुआणतूणाः क्त्वः ॥२।१। २९ ॥
क्त्वाप्रत्ययस्य तुं अत् तुआण तूण इति चत्वार आदेशा भवन्ति । तुं । दटुं । तुआण । दट्ठआण । तूण । दद्दूण । अत्र 'घेत्तुंतव्यक्त्वासु अहिः' इत्यतः 'तुंतव्यक्त्वासु' इत्यधिकृत्य
१ 'खघधभाम्' इत्यतः ध इत्यनुवर्तते M., T. २ छत्वम् T. ३ इत् M., T. ४ चिंचेवे' M. ५ My. and P. omit मृषा. ६ चत्वारि स्यात् M. ७ शोः सत्वे मुसा is omitted by My., P. ८ T. has before अत्र &c. 'क्ता सुपोस्तु सुण्' इत्यनुवारे दंतुआणं दंतूणं. ९ इत्यधिकृत्य M., T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org