________________
अव्ययेषु विशेषाः।
१५१ इजेराः पादपूरणे ॥२।१ । ७६ ॥
पादपूरणेऽर्थे इ जे र इत्येते तु प्रयोक्तव्याः । रामो इ । एवं जेरयोरपि । अहो अहो हा नाम हे अहह हि आ इत्यादयः संस्कृतवदेव सिद्धाः।
इत्यव्ययानि ।
अथाव्ययेषु केचिद्विशेषाः प्रदर्यन्ते । कहं । कह । इआणिं । इआणि । अत्र मांसादित्वाद्विकल्पेन बिन्दुलोपः ॥
एण्हि एत्ताहे इदानीमः ॥ १।३।१०३॥ ईदानींशब्दस्य एण्हि एत्ताहे इत्यादेशौ भवतः । एहि । एत्ताहे ॥ बाहिंबाहिरौ बहिसः ॥ १।३ । १०१॥ बहिसूशब्दस्य बाहिं बाहिर इत्येतौ वा स्याताम् । बाहिं । बाहिर । उवरिं । अत्र वक्रादित्वाद्विन्दुः ॥ __ यत्तत्सम्यग्विष्वक्पृथको मल ॥ १।१। ३८॥
'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इत्यनुवर्तते । एषामन्त्यहलो मः स्यात् । यत् । जं । तत् । तं । सम्यक् । सम्मं । अत्र 'मनयाम्' इति यलोपः । विष्वक् । वीसुं । अत्र 'उध्वनिइत्यादिना वकारसंबन्धिनो वर्णस्य उत्वम्। 'लवराम्-' इति वलोपः । 'शोलृप्त-' इत्यादिना दीर्घः । उच्चैः । अत्र 'ऐच एङ्' इत्यतः 'ऐचः' इत्यधिकृत्य
उच्चैर्नीचैसोरः॥१।२।१०८ ॥ १T. drops पादपूरणेऽर्थे. २ पादपूरणे प्रयोज्याः T. ३ संस्कृत एव सिद्धाः T. ४ केषुचिद्विशेषाः T. ५ कथ्यन्ते M. ६ इदानीमित्यर्थे M. ७ वा भवतः M ; तु भवतः T. ८ इत्यादेशौ वा स्याताम् T. ९ इत्यनुवर्तते M., T. १० यलोपे शेषद्वित्वम् T. ११ नीचैः after उच्चैः M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org