________________
१५०
षड्भाषाचन्द्रिकायां उ ओ उपे ॥२।१ । ६८॥
उप इत्युपसर्गे उ ओ इति द्विधा प्रयोज्यम् । उआरो । ओआरो । उवआरो। उपचारः ।।
प्रत्येकमः पाडिएकं पाडिकं ॥२।१।६९ ॥
प्रत्येकमित्यस्मिन्नर्थे पाडिएकं पाडिकं इति तु प्रयोज्यम् । पाडिएकं । पाडिकं । पक्षे । पञ्चेअं। अत्र 'त्योचैत्ये' इति त्यस्य चः॥ स्वयमो अप्पणा ॥२।१। ७० ॥
खयमित्यस्यार्थे अप्पणेति वा प्रयोज्यम् । अप्पणा पाओ । खयं पाकः ।।
एक्कसरिअं झडिति संप्रति ॥२।१। ७१ ॥
झडित्यर्थे संप्रत्यर्थे च एकसरिअमिति तु प्रयोज्यम् । एकसरि । झडिति संप्रति वा । पक्षे । झत्ति । संपइ ।।
इहरा इतरथा ॥२।१ । ७२ ॥ इहरा इति इतरथार्थे वा प्रयोज्यम् । इहरा । पक्षे । इअहरा ।। मुधा मोरउल्ला ॥२। १ । ७३ ॥ मुधेत्यर्थे मोर उल्लेति तु प्रयोज्यम् । मोरउल्ला । पक्षे । मुहा ॥ अयि ऐ॥२। १ । ७४ ॥
अयि इत्यर्थे ऐ इति वा प्रयोज्यम् । अत एव वचनादैकारस्यापि प्राकृते प्रयोगः । ऐ सहि । पक्षे अइ सहि ॥
उव पश्य ॥२।१ । ७५ ।।
पश्येत्यर्थे उवेति वा स्यात् । उव णिप्फळणिण्फंदा । पश्य निष्फलनिष्पन्दा । पश्यतेत्यर्थे उवह इति च दृश्यते । उवह गोट्ठमज्झम्मि । पश्यत गोष्ठमध्ये ॥
१ इति तु for इति M., T. २ प्रयोक्तव्यः T. ३ तु for वा M. ४ तु प्रयोज्यं for वा स्यात् M., T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org