________________
अव्ययानि ।
१४९
पश्चात्तापे सूचने च ओ इति प्रयोज्यम् । ओ कसं पावं । सूचने । ओ तुह चरिअं सव्वं विण्णाअं ॥
अण णाई नअर्थे ॥२।१।६१ ॥
नार्थे अण णाइ इत्येतौ प्रयोज्यौ । अण चिंति मुणंति । न चिन्तितं जानन्ति । णाई करेमि रोसं । न करोमि रोषम् ॥
निश्चयनिर्धारणे वले ॥२।१ । ६२ ॥
निश्चये निर्धारणे च वले इति प्रयोज्यम् । निश्चये । वले सीहो । सिंह एवायम् । निर्धारणे । वले पुरिसो धणंजओ खत्तिआणं । क्षत्रियाणां धनंजय एव पुरुषः ॥
मणे विमर्शे ।। २।१।६३ ॥ विमर्श मणे इति प्रयोज्यम् । मणे सूरो। किंस्वित्सूरः॥ माइ मार्थे ॥२।१।६४ ॥ माइ इति माकारार्थे प्रयोज्यम् । माइ होदु रोसो । मा भवतु रोषः ॥
आलाहि निवारणे ॥२।१।६५ ॥ निवारणे आलाहि इति प्रयोज्यम् । आलाहि विसाएण । अलं विषादेन ॥
लक्षणे जेण तेण ॥ २॥ १। ६६॥ एतौ लक्षणे प्रयोज्यौ । भमररुअं जेण तेण कमळवणं ॥ त्वोदवापोताः ॥२।१। ६७ ॥
अव अप इत्येतावुपसर्गौ उत इति विकल्पार्थो निपातश्च ओत्वं वापद्यन्ते । ओआरो । अवतारः अपकारो वा । ओ विरएमि णहस्थळे । उस विरचयामि नभस्थले । पक्षे अवआरो इत्यादि ।
१ अण णाई इत्येतावुक्तार्थे स्याताम् P., My; अण णाई इत्येतौ नगर्थे प्रयोज्यौ R. २ अलाहि M. ३ अलाहि M. ४ अलाहि M. ५ प्रयोक्तव्यौ M., T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org