SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ हलन्ता नपुंसकलिङ्गाः । १३५ आशीः शब्दे अन्त्यहलः सकारो वा स्यात् । शित्वात् पूर्वस्य दीर्घः । आसीसा । पक्षे । आत्वम् । आसिआ ॥ अप्सरस्शब्दे स आयुरप्सरसोः॥१।१ । ३४॥ 'धनुषि वा' इत्यतः 'वा' इत्यनुवर्तते । अनयोरन्त्यव्यञ्जनस्य सकारो वा स्यात् । इति सत्वे 'थ्यश्चत्सप्सामनिश्चले' ईति प्सस्य छत्वम् । अच्छरसा। पक्षे । आत्वम् । अच्छरआ ॥ अदस्शब्दस्य 'अहद्वा सुना' इति वा अहः । अह । पक्षे । 'सुप्यदसोमुः' इति अमुः । अमू । अमूओ । इत्यादि । तनुशब्दवत् ।। इति हलन्ताः स्त्रीलिङ्गाः। अथ हलन्ता नपुंसकलिङ्गाः। हकारान्तनपुंसकलिङ्गः खनडुट्छब्दः । अगागमः । सु अनडुहं । इत्यादि । कुण्डवत् ॥ वकारान्ते सुदिवशब्दे कप्रत्यये सुदिअं। इत्यादि । रेफान्तः सुगिरं । इत्यादि ॥ चतुर्शब्दः पुंल्लिङ्गवत् । इदम्शब्दस्य 'इदम इमः' इत्यतः 'इदमः' इत्यधिकृत्य क्लीवे स्वमेदमिणमिणमो ॥२।२। ८२ ॥ नपुंसके वर्तमानस्येदमः सु अम् इत्येताभ्यां सह इदं इणं इणमो इत्यादेशा भवन्ति । इदं । इणं । इणमो । अन्यत्र पुंल्लिङ्गवत् ॥ किं किं ॥२ । २ । ८३ ॥ 'क्लीबे' इत्यनुवर्तते 'स्वम्' इति च । क्लीवे वर्तमानः किंशब्दः खमा सह किमेव भवति । किं । किं । अन्यत्र पुँल्लिङ्गवत् ॥ दामन्शब्दे 'स्त्रमदाम-' इति सूत्रे 'अदाम' इति पर्युदासान्नपुंसकत्वम् । अन्त्यहलो लोपः । दामं दामाणं । कुण्डवत् ॥ शर्मवर्मशब्दयोः 'स्त्रमदाम-' इत्यादिना पुँल्लिङ्गत्वप्रतिज्ञानेपि सम्मं वम्म इति च १ इत्यधिकृत्य R., M. २ इत्यनेन M. ३ तनुवत् My., P. ४ हलन्त' R. ५ इत्यादि कुण्डवत् T. ६ इत्यधिकृत्य M.. R. ७ प्रतिज्ञाने सत्यपि T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy