________________
१३४
षड्भाषाचन्द्रिकायां सिद्धाः॥ चकारान्तः स्त्रीलिङ्गो वाक्शब्दः । आत्वम् । वाआ ॥ त्वक्शब्दस्य 'अविद्युति-' इत्यात्वे 'त्वथ्वद्वध्वाम्-' इति सूत्रेण त्वस्य चत्वे । चआ । एवं रुचादयः ॥ तकारान्तः स्त्रीलिङ्गो योषिच्छब्दः । आत्वम् । जत्वम् । जोसिआ । एवं सरिदादयः ॥ विद्युच्छब्दस्य 'अविद्युति स्त्रियामाल्' इत्यत्र 'अविद्युति' इति पर्युदासादात्वं न भवति । किं त्वन्त्यहलो लोप एव । 'द्यय्यर्या जः' इति जत्वम् । विजू । तनुवत् । कुलादिपाठाद्वा पुँल्लिङ्गतायां कारुवत् । 'लो वा विद्युत्-' इत्यादिना स्वार्थे वा ले सति । विज्जुला । शतृशानजन्तेषु स्त्रियां विशेषः । पुँल्लिङ्ग इव शतृशानचोः कृतयोः . स्त्रियामी च ॥ २।४ । ४२ ॥
'शतृशानचोः' इत्यनुवर्तते । शतृशानचोः स्थाने स्त्रियामीत्वम् । चकारान्माणन्तौ च भवतः । हसई । हसमाणी । हसंती । भजई । भजमाणी । भजंती । 'पुंसोजातेझैब वा' इति वा ङीएँ । हसमाणा । इत्याद्यपि । एवं सत्रोह्यम् । शेषं गौरीवत् ॥ ककारान्तोप्रसिद्धः ॥ पकारान्तः स्त्रीलिङ्गोप्छब्दः । अन्त्यहल आत्वम् । आआ । पैलोपः । जसि । सिद्धावस्थापेक्षया आओ इति दृश्यते । बह्वर्थवाचित्वात् सर्वत्र बहुवचनमेव । जायावत् ॥ शकारान्तः स्त्रीलिङ्गो दिक्शब्दः । 'दिक्प्रावृषि' इत्यन्त्यहलः सत्वम् । दिसा दिसाओ । इत्यादि । जायावत् ॥ दृक्शब्दस्यात्वम् । कृपादित्वात इत्वम् । दिआ । षकारान्तः स्त्रीलिङ्गस्त्विदशब्दः । आत्वम् । त्वस्य चत्वम् । चिआ । चिआओ ॥ षट्छब्दः पुंल्लिङ्गवत् ॥ सकारान्तः स्त्रीलिङ्ग आसीस् शब्दः । 'धनुषि वा' इत्यतः 'वा' इत्यधिकृत्य
सशाशिषि ।। १ । १ । ३३ ॥
. १ लः for वा ले सति M. २ वत् for इव M., T. ३ डीपि M. ४ पलोपे M. ५ इत्यपि M. ६ जायाशब्दवत् M., T. ७ इत्यधिकृत्य M., T., R.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org