________________
१२८
षड्भाषाचन्द्रिकायां तिवर्जिते प्रत्यये परे त्वरतेस्तुर इत्यादेशः स्यात् । तुरन्तो । तुरमाणो । तुरेन्तो । तुरेमाणो ।
तूरः शतृतिङि ॥२।४ । १५०॥ 'त्वरेः' इत्यनुवर्तते । ङित्वरा संभ्रम इत्यस्य तिङि शतृप्रत्यये च परतः तूर इत्यादेशः स्यात् । तूरन्तो । तूरेन्तो । तूरमाणो । तूरेमाणो । इत्यादि । एवं सर्वधातुषु तदादेशेषु च शतृशानचोः स्थाने माणन्तौ विधातव्यौ । शेषं रामवत् । कर्मणि तु शानचि कृते तस्य माणन्तयोः कृतयोर्धातो) इत्यादेशेषु कृतेषु अणुहो यक् माण इति स्थिते
ईअइजो यकः ॥२।४।९१॥
यकः स्थाने ईअइज्ज इत्येतावादेशौ भवतः । इति ईअहज्जादेशयोः। अणुहोईअमाणो । अणुहोइज्जमाणो । अणुहोईअन्तो। अणुहोइजन्तो । एवं हसीअन्तो । हसिजन्तो । हसीअमाणो । हसिजमाणो । इत्यादि सर्वधातुषु तदादेशेषु च कल्पनीयम् । कर्मणि हलन्तधातुष्वगागमात् पूर्वमेव ईअइज्जयोः कृतयोः । हसिज्जमाणो । हसीअमाणो। इत्यादयः सिद्धाः ॥ अर्हच्छब्दे 'स्निग्धे त्वदितौ' इत्यतः 'अदितौ' इत्यधिकृत्य 'मारत्नेन्त्यहलः' इत्यतः 'अन्त्यहलः' इति च
अर्हत्यु च ॥१।४।१०५॥
अर्हच्छब्देऽन्त्यहलः प्रागुत्वं चकाराददितौ च भवतः । अरुहन्तो । अरिहन्तो । अरहन्तो । एवं अरुहमाणो इत्यादयः । अन्त्यहलो लोपे तु । अरुहो । अरिहो । अरहो । इत्याद्यपि । शेषं रामवत् ॥ पकारान्तः पुंल्लिङ्गो धर्मगुप्शब्दः । अगागमः । धम्मगुवो । धम्मगुवा । इत्यादि ॥ शकारान्तेषु सहगादिष्वगागमे 'केवलस्य रिः' इत्यनुवर्तमाने
१T. has तुरन्तो। तुरेन्तो। तुरमाणो । तुरेमाणो. २ कल्पनीयाः M., R., T. ३ इत्यधिकृत्य M., R, T. ४ इति च M., R., T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org