________________
हलन्ताः पुंलिङ्गाः।
१२९ 'दृश्यक्सक्किनि' इति 'ऋतोत्' इति च । सरिसो। सरिसा । एवं तारिसो । इत्यादि ॥ षकारान्ते रत्नमुट्शब्दे अगागमे 'क्ष्मारत्नेन्त्यहलः' प्रागत्वे च । रअणमुसो । इत्यादि ॥ प्रावृट्शब्दे शरत्प्रावृषौ पुंस्येवेति त्रिविक्रमदेववचनात् पुंल्लिङ्गतायां ‘स आयुरप्सरसोः' इत्यतः 'सः' इत्यनुवर्तमाने 'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इति च दिक् प्रावृषि ।।१।१॥ ३५॥
अनयोरन्त्यहलः सो भवति । लोपापवादः। ऋत्वादिपाठाहत उत्वम् । पाउसो । पाउसा । इत्यादि । रामवत् ॥ षट्छब्दस्यान्त्यहलो लोपे 'छल् षट्छमी' इत्यादिना शोश्छत्वे । छो । छा । छेहिं । छेहिंतो । आमि । छण्हं । छह । छेसुं । छेसु ॥ सकारान्ते सुवर्चस्शब्दे अन्त्यहलो लोपे। सुवच्चो । सुवच्चा । इत्यादि । रामवत् ॥ मनस् यशस् महस् इत्यादीनां 'स्लमदामशिरोनभो नरि' इति पुंल्लिङ्गतायामन्त्यहलो लोपे । मणो । जसो । महो । इत्यादि । रामवत् । एवं तमस्प्रभृतयः ॥ सुमनस् शब्दस्यान्त्यहलो लोपे । सुमणो । सुमणा । इत्यादि ॥ धनुःशब्दे तु 'हः क्षुत्ककुभि' इत्यतः 'हः' इत्यधिकृत्य 'अन्त्यहलोश्रदुदि' इत्यतः 'अन्त्यहलः' इति च
धनुषि वा ॥१।१। ३२॥
अत्रान्त्यहलो हत्वं वा स्यात् । धणुहो । धणुहा । इत्यादि । पक्षे । अन्त्यहलो लोपे । धणू । इत्यादि । कारुवत् । धनुर्मनसोर्नपुंसकत्वमिति केचित् । तदा । मैंणं । धणुहं । धणु । इत्यादि । कुण्डवन्मधुवच्च ॥ अदस् शब्दस्य अदस् सु इति स्थिते 'सुप्यदसोमुः' इत्यतः 'अदसः' इत्यधिकृत्य __अहद्वा सुना ॥ २।२।९१॥
१M. and R. drop च. २ इत्यनुवर्तते M. ३ महस् यशस् R., T. ४ इत्यधिकृत्य M., T. ५ इति च M., R., T. ६ धनुःसुमनसो' M. ७ सुमणं M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org