SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १२६ षड्भाषाचन्द्रिकायां ___ एतदो ङसिना सह एत्तो एताहे इत्यादेशौ वा भवतः। एत्तो । एत्ताहे । पक्षे । एआहिंतो। इत्यादि । भ्यसि । ऐआहिंतो। एएहिंतो । ऐआसुतो । एएसुंतो । इत्यादि । ङसि । 'तदिदमेतदाम्-' इति से च । से। एअस्स । आमि । सिं। एएसिं । एआणं । एआण । डौ । र्थस्सिम्मयः । थे डेल् ॥ २।२। ८६ ॥ 'एतदः' इत्यनुवर्तते । एतदः स्थाने रौनुबन्धथकारे परे लानुबन्ध एकारो डिद्भवति । लित्वान्नित्यम् । एत्थ । एतो म्मावदितौ वा ॥२।२। ८७ ॥ 'एतदः' इत्यनुवर्तते । सप्तम्येकवचनादेशे म्मौ परे एतदः एकारस्य अ इ इत्येतावादेशौ वा भवतः । अअम्मि । इअम्मि । पक्षे । एअम्मि ॥ शरच्छब्दे 'शरदामल्' इत्यत्वे बहुलाधिकारात् शरत्प्रावृषौ पुंस्येव प्रयोक्तव्यावेति त्रिविक्रमदेववचनात् पुंल्लिङ्ग एव प्रयोगः। सरओ। सरआ । इत्यादि । रामवत् । खफछढान्ता अप्रसिद्धाः । थकारान्तः पुंलिङ्गः अग्निमच्छब्दः । अगागमः । अग्गिमहो । अग्गिमहा । पक्षे । 'स्नेहाग्योः ' इत्यन्त्यहलः प्रागत्वे अगणिमहो । इत्यादि । रामवत् । एवं दधिमदादयः। चकारान्तः पुंल्लिङ्गो वारिमुक्शब्दः । अगागमः । चलोपः । वारिमुओ। वारिमुआ । इत्यादि । एवं जलमुगादयः । तिर्यक्शब्दस्य 'तिर्यक्पदातिशुक्तेस्तिरिच्छिपायिक्कसिप्पि' इति निपातनात् तिरिच्यादेशे । तिरची । इत्यादि । कविवत् ॥ टकारान्तोऽप्रसिद्धः । तकारान्तः पुंल्लिङ्गो मरुच्छब्दः । अन्त्यहलो लोपे । मरू । मरुणो। इत्यादि । कारुवत् । भवन्मह १ एएहिंतो । एआहिंतो M. २ एएसुंतो । एआसुतो M. ३ रानुबन्धनकाले M. ४ °थकारपरे R. ५ M. and T. drop इअम्मि. ६ M. and T. have after एअम्मि, एअस्सि । सुपि । एएसु । एएसुं. ७ वक्तव्या My., P. ८ तिर्यक्शब्दस्य तिरिच्यादेशे M., R., T. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy