________________
हलन्ताः ।
१२५
कचित् सुपि तदो णः ॥२।२। ७४ ॥ तच्छब्दस्य सुपि परे णो भवति । कचिल्लक्ष्यानुरोधेन । इत्यम्शसोः टा वचने सुपि च लक्ष्यते । इत्यमि तदो णे सति । णं । शसि । ते । ता । थे। णा। टावचने । 'इदमेतद्-' इत्यादिना टो वा डिणा । तिणा । तेणं । तेण । णिणा । णेणं । णेण । भिसि । तेहिं । इत्यादि । ङसौ 'म्हा ङसेः' इति वा म्हा । तम्हा । तस्मात् । 'ङसेः' इत्यनुवर्तमाने
डो तदस्तु ॥२।२ । ७२ ॥
तदः परस्य ङसेर्डित् ओत्वं वा भवति । तो। पक्षे। ताहिंतो । इत्यादि । भ्यसि । ताहिंतो । तेहिंतो । तासुंतो। तेसुंतो। इत्यादि । सर्ववत् । ङसि 'किंयत्तद्भयः-' इति उसः शस् । तास । पक्षे । तस्स । 'तदिदमेतदाम् -' इत्यादिना से। से। आमि । सिं । तास । तेसिं । ताणं । ताण । इतः परं यद्वत् । सुपि । तेसुं । तेसु । णेसुं । णेसु ॥ एतच्छब्दस्य एतद् सु इति स्थिते अन्त्यहलो लोपः । 'तस्सौ सोक्लीवे तदश्च' इति चकारविहितः सादेशः । एसो। 'एत्तो एत्ताहे ङसिनैतदः' इत्यस्मात् 'एतदः' इत्यनुवर्तते ।
सुनैस इणमो इणं ॥२ । २ । ८८ ॥
एतदः सुना सह एस इणमो इणं इत्यादेशा भवन्ति । एस । इणमो । इणं । जसि तलोपे । एए । अमि । एअं। शसि । ऐए । एआ। टा । एइणा । एएणा । एएणं । भिसि । एएहिं । इत्यादि । उसौ 'तदिदमेतद्-' इत्यादेः 'तु' इत्यनुवर्तते । - एत्तो एत्ताहे उसिनैतदः ॥२।२ । ८५॥
१टा for टावचने M., R. २ तेहिंतो । ताहिंतो M. ३ तेसुंतो । तासंतो M. ४ तेसु । तेसुं M. ५ णेसु । णेसुं M. ६ इत्यनुवर्तमाने M., R., T. ७ इति त्रय आदेशा M., R., T. ८ M. has एआ after एए. ९ एआ। एए M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org