SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ हलन्ताः । इत्यादि । रामवत् । एवं प्रतामादयः ॥ किंशब्दस्य तु भेदः । 'क्वचित्सुपि तदो णः' इत्यतः 'सुपि' इत्यधिकृत्य तसि च किमो ल्कः ॥ २॥ २ । ७५ ॥ किंशब्दस्य त्रतसोः सुपि च परे क इत्यादेशो लित् स्यात् । 'सोः' इत्योत्वम् । को । सर्वनामत्वाजस एत्वम् । के । शसि सर्ववत् । टा इदमेतत्कियत्तद्भ्यष्टो डिणा ॥ २ । २ । ७३ ॥ _ 'अनिदमेतदस्तु किंयत्तद्भ्यः स्त्रियामपि हिं' इत्यतो मण्डूकप्लुतिन्यायेन 'तु' इत्यनुवर्तते । एभ्यः सर्वादिभ्योदन्तेभ्यः परस्य टावचनस्य इणा इति डिद्वा स्यात् । किणा । केण । केणं । मिसि सर्ववत् । ङसौ म्हा उसेः॥ २२॥ ७० ॥ 'अनिदमेतद्-' इत्यादेः 'किंयत्तद्भ्यः ' इत्यनुवर्तते 'तु' इति च । किंयत्तद्भ्यः परस्य ङसेः म्हा इत्यादेशो वा स्यात् । कम्हा । पक्षे सर्ववत् । किमो डीसडिणो ॥२ । २ । ७१ ॥ 'ङसेः' इत्यनुवर्तते । किमः परस्य उसेः ईस इणो इत्यादेशौ डितौ वा भवतः । कीस । किणो । पक्षे सर्ववत् । ङसि 'किंयत्तद्भ्यः सश्' इत्यतः 'सश्' इत्यधिकृत्य किंयत्तभ्यो डेस् ॥ २।२। ६७ ॥ स् इति विभक्तिव्यत्ययेन षष्ठी । एभ्यः परस्य उसः सश् वा भवति । कास । पक्षे कस्स । आमि ‘आमां डेसिं' इति वा डेसिमादेशः । केसिं । पक्षे किंयत्तद्भ्यः संश् ॥ २।२।६६ ॥ १ इत्यधिकृत्य M., R., T. २ दिणा M. ३ इत्यनुवर्तमाने My., P. ४ भवति M. ५ डसी M. ६ डसी M. ७ स्यात् M., R. ८ शसी M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy