SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ११८ षड्भाषाचन्द्रिकायां 'आमां' इत्यनुवर्तते । एभ्यः परस्य आमः शित् सकारो वा स्यात् । कास । पक्षे सर्ववत् । काणं । काण । ङौ 'डेस्त्थस्सिम्मि' । कत्थ । कस्सि । कमि । 'अनिदमेतद्-' इत्यादिना वा हिं च । कहिं । ङावेव विशेषः । ङिरिआडाहेडाला काले ॥ २ । २ । ६९ ॥ किंयत्तद्भ्यः परो ङिः इआ इत्यादेशं आहे आला इत्येतौ डितौ चापद्यते वा कालेभिधेये । कइआ। काहे । काला । कदेत्यर्थः । एवं यत्तदोरप्येते आदेशाः कालेभिधेये । शेषं सर्ववत् ॥ इदं शब्दस्य तु इदम् स् इति स्थिते 'क्वचित् सुपि तदो णः' इत्यतः 'सुपि' इत्यधिकृत्य इदम इमः ॥२।२ । ७६ ॥ इदंशब्दस्य इम इत्यादेशो भवति सुपि परे । इमो ।। पुंसि सुना त्वयं स्त्रियामिमिआ ।। २ । २ । ७७ ॥ 'इदमः' इत्यनुवर्तते । इदमः सुना सहितस्य पुंलिङ्गे अयमिति स्त्रीलिङ्गे इमिआ इति वा भवति । अयं । यद्यप्येतद्रूपं सिद्धावस्थापेक्षयापि भवति तथापि इमिआर्थ वचनम् । जसि सर्ववत् । इमे । द्वितीयातृतीययोः टाससि णः ॥२ । २ । ७९ ॥ 'इदमः' इत्यनुवर्तते । टास् तृतीया असु द्वितीया तयोः परयोरिदमो ण इत्यादेशो वा स्यात् । अमि णं । पक्षे इमं । इहेणं ड्यमा ॥२।२। ८०॥ 'इदमः' इत्यनुवर्तते । ङि अम् इत्येताभ्यां सहितस्येदमः स्थाने इह इणं इत्येतो केमेण भवतः । इणं । 'शस्येत्' इति वा एत् । णे । णो । शसः श्लुक् । इमे । इमा । टा। एणं । णेण । पक्षे । इमेणं । १ काण । काणं M. २ कालोभिधीयते M. ३ इत्यधिकृत्य M., R. ४ अस्ति R. ५ क्रमेण तु भवतः R., T.; क्रमेण स्तः My. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy