________________
मात् । इत्यतो वा । इति त्वस्य वा अन सर्वत्र
अजन्तनपुंसकलिङ्गाः। ११३ एषु ऋत आद्वा स्यात् । इत्यतो वा आत्वे माउक्कं । पक्षे अत्वम् । मउक्कं । कत्वाभावे 'त्वस्य तु डिमात्तौ' इति त्वस्य वा तणादेशे । माउत्तणं । मउत्तणं । तणाभावे । माउत्तं । मउत्तं । अत्र सर्वत्र दलोपः ।। पत्तनशब्दे 'प्रवृत्तसंदष्ट---' इत्यादिना स्तोष्टत्वम् । पट्टणं ॥ प्रवृत्तशब्दे पूर्वसूत्रेणैव स्तोष्टत्वम् । पवढे । अत्र 'ऋतोत्' इत्यत्वं च । आश्चर्यशब्दे यः सौकुमार्य-' इत्यादिना 'यः' इत्यनुवर्तमाने
अररिअरिजमाश्चर्ये ॥ १।४। ५६ ॥
अत्र यस्य अर रिअ रिज इति त्रय आदेशा भवन्ति । अच्छअरं । अच्छरिअं । अच्छरिजं ।। श्मशानशब्दे 'शोलक् खोः-'इत्यादिना शोलोंपे । मसाणं ॥ सरोरुहशब्दे 'त्वत्सरोरुह-'इत्यादिना एचो वा अत्वम् । सररुहं । सरोरुहं ॥ अन्योन्यशब्देप्येवम् । अण्णणं । अण्णोणं ॥ कालायसकिसलयहृदयशब्देषु 'ज्योर्दनुज-'इत्यादिना यकारस्य साच्कस्य वा लोपे । कालासं । कालाअसं । किसलं । किसलअं। हिअं। हिअअं॥ चत्वरशब्दे 'चः कृत्तिचत्वरे' इति स्तोश्चत्वम् । चच्चरं ॥ सैन्यशब्दे 'चपेटकेसरदेवर-' इत्यादिना एचो वा इत्वम् । सिणं । सेण्णं । दैवादिपाठात् सइण्णं ॥ चिह्नशब्दे 'वा न्तन्धौ मन्युचिह्नयोः' इत्यनेन वा धादेशे । चिन्धं । पक्षे 'नष्ण-'इत्यादिना म्हादेशे । चिण्हं । इन्धं । इण्हं । इत्यप्यस्ति । बहुलाधिकारात् केचिदादेरपि चस्य लोपः ॥ मलिनशब्दे 'मलिनधृति-'इत्यादिना मलिनशब्दस्य वा मइलादेशे । मइलं । पक्षे मलिणं ॥ वैडूर्यशब्दे अनेनैव
१ इत्यनुवर्तते M., R. २ राजकुलभाजनकालायस' R., T. ३ हृदयेषु M., R. ४ M. has अत्र before 'ज्यार्दनुज'. ५ After this R. has कयो लोपे राउरं । राअउरं । भाणं । भाअणं. ६ चत्वरे M., R. ७ श्रुत्वम् M. ८ 'केसर-' इत्यादिना M. ९ इत् M. १० ण्हादेशः M., T. ११ अत्र बहुला° T. १२ M. and T. have प्रायो लुक् before क्वचिदादेरपि. १३ T. has वैडूर्यशब्दे च after this. १४ T. drops वैडूर्यशब्दे; M. has वैडूर्यशब्दस्य. १५ M. drops अनेनैव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org