________________
११४
षड्भाषाचन्द्रिकायां
वेरुलि आदेशे वेरुलिअं। पक्षे वेडुजं । इत्याहनीयम् ॥आकारान्तनपुंसकलिङ्गः सोमपाशब्दः । 'किपः' इति हवः । शेषं पुंलिङ्गसोमपाशब्दवत् ॥ इकारान्तनपुंसकलिङ्गो दधिशब्दः । दधि सु इति स्थिते 'मङ्लुगसंबुद्धेर्नपः' इत्यनेन सोर्मङ्लुक् च । ङित्वात् सानुनासिक उच्चारः। दहिं । दहि । सिद्धावस्थापेक्षया दहि इत्यपि भवति । जश्शसोनिशिमादयः । दहीणि । दहीइं । दही। दे दहि । इत्यादि । शेषं पुंलिङ्गकविवत् । एवं वारिप्रभृतयः ॥ अस्थिशब्दे 'विसंस्थुलास्थि-'इत्यादिना युक्तस्य टत्वम् । वैक्रादित्वाद् बिन्दुः । अंठिं । अन्यत्र दधिवत् ॥ अक्षिशब्दस्य स्पृहादित्वात् क्षस्य छत्वम् । अच्छि । दधिवत् ॥ द्वित्रिशब्दयोर्लिङ्गत्रयेपि समान रूपम् ॥ ग्रामणी. शब्दे 'किपः' इति इखः । गामणिं । इत्यादि । दधिवत् ॥ उकारान्तनपुंसकलिङ्गो मधुशब्दः। प्रथमाद्वितीययोर्दधिवत् । सिद्धावस्थापेक्षया महु इति च भँवति । अन्यत्र पुंलिङ्गकारुवत् ॥ विंदशब्दस्य गुणादिपाठात् 'क्कीबे गुणगाः' इति वा नपुंसकत्वे मधुवत् ॥ श्मश्रुशब्दे 'शोर्लक्खो:-' इत्यादिना शोर्लक् । चक्रादित्वाद्विन्दुः । मंसुं । इत्यादि मधुवत् ॥ खलपूशब्दे हूस्वः । खलबुं । श्निमादौ पुनर्दीर्घः । खलवूनि इत्यादि मधुवत् । एवं काण्डलूप्रभृतयः ॥ ऋकारान्तनपुंसकलिङ्गः कर्तृशब्दः । 'आरः सुपि' इत्यारादेशः । कत्तारं । कत्ताराणि इत्याद्यारादेशे कुण्डवत् । 'उहतां त्वस्वमामि' इत्युत्वे कत्तूनि इत्याधुत्वपक्षे मधुवत् । खमामि तु आर एव ।। ओकारान्तनपुंसकलिङ्ग उपगोशब्दः । सिद्धावस्थापक्षेया उवउ । उवऊं । इत्यादि मधुवत् ॥ ऐकारान्तनपुंसकलिङ्गोतिरैशब्दः । अनुक्तमन्यन्यायेन । 'हखो नपुंसके प्रातिपदिकस्य' इति हूखे 'एच इघ्रस्खादेशे' इति एच इक् । तलोपः । अइरिं । अइरीणि । __ १ T. has वैडूर्यस्य after आदेशे. २ यूह्यम् M., R., T. ३ M. and R. drop वक्रादित्वाद्विन्दुः. ४ दृश्यते R. ५ M. and R. drop क्लीवे गुणगाः. ६ M. and R. have बिन्दु इत्यादि before मधुवत्. ७ M. has आदिवरात् before विन्दुः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org