________________
अजन्तनपुंसकलिङ्गाः। प्रागुत्वे । दुवारं । तदैव च वलोपे । दुआरं । 'कग--' इति दलोपे । वारं । वेरमित्यपि ॥ आर्द्रशब्दे 'हे दक्षिणेस्य' इत्यतः 'अस्य' इत्यधिकृत्य त्वार्द्र उदोत् ॥ १।२ । २७ ॥
आर्द्रशब्दे आदेरवर्णस्य उत्वमोत्वं च वा भवतः । आई । उर्द्र । ओ । इति स्थिते 'लो वा' 'स्तोः' इत्यनुवर्तते । अत्र स्तोर्लो वा स्यात् इति वा लत्वे रेफलोपे शेषस्य द्वित्वे 'संयोगे' इति हखे चे । अल्लं । उल्लं । ओल्लं । लत्वाभावे । अदं । उदं । ओदं ॥ स्त्यानशब्दे 'ईल्खल्वाट-' इत्यादिना अकारस्य ईत्वम् । 'स्त्यानचतुर्थे–' इत्यादिना स्तस्य वा ठत्वम् । ठीणं । ठत्वाभावे 'ल्थोस्पन्दे' इत्यनुवर्तमाने एतत्सूत्रे चकारानुकृष्टं थत्वम् । थीणं । दैवादित्वाद् द्वित्वे थिण्णं ॥ तालवृन्ते उत्खातादिपाठादाकारस्य विकल्पेन हूखे तलवृन्त तालवृन्त इति स्थिते 'ऋतोत्' इत्यधिकृत्य वृन्त इदेङ् ॥ १।२ । ८७ ॥
अत्र ऋत इदेतौ वा भवतः । 'टल् त्रसरवृन्त-' इत्यादिना तस्य टत्वम् । तलविंटं । तलवेंट । तालविंटं। तालवेंट ॥ 'संयोगे' इत्यधिकृत्य
त्वेदितः ॥ १।२। ४१॥
इत आदेरिकारस्य संयोगे परे वा एकारः स्यात् । धम्मेल्लं । धम्मिल्लं । सेंदूरं । सिंदूरं । पेंडं । पिंडं । इत्यादि ॥ क्षुतशब्दे 'स्वदुत उपरि गुरुके' इत्यतः 'उतः' इत्यधिकृत्य
क्षुत ईत् ॥ १।२।६१॥
१ इत्यधिकृत्य M., R. २ आर्द्रा M. ३ उर्दा M. . ४ ओH M. ५ M. and R. drop च. ६ तालविंट is dropped in P., R., T., My. ७ धमेल्लं । धमिल्लं My. ८ क्षुते M. ९ इत्यधिकृत्य M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org