________________
११०
षड्भाषाचन्द्रिकायां
1
'नपः' इत्यनुवर्तते । नपुंसकलिङ्गात् परयोः जश्शसोः नि ई इ इति त्रय आदेशा भवन्ति । शानुबन्धत्वाद्दीर्घः । कुण्डाणि । कुंडाई | कुंडाइ | वैणानि । वणाई | वणाइ । एवं शस्यपि ॥ अन्यत्र रामवत् । एवं सदनवदनप्रभृतयः ॥ सर्वादौ 'सर्वादेर्जसोतो डेत्' इत्यस्य पुंल्लिङ्गविषयत्वात् निशिशिङ एव भवन्ति । सव्वं । सव्वाणि । सव्वाई | सव्वाइ । इत्यादि । शेषं पुंल्लिङ्गसर्वशब्दवत् ।
t
अथ अकारान्त नपुंसकलिङ्गेषु विशेषाः प्रदर्श्यन्ते । पतिगृहम् । वेणुवनम् । शिलास्खलितम् । यमुनातटम् । वधूमुखम् — इत्यादिषु 'दिहौ मिथः से' इति दीर्घखयोरन्योन्यादेशे । पईघरं । वेणूवणं । दीर्घस्य ह्रखः । सिळखळिअं । जैउणतडं । बहुमुहं । पक्षे । पइघरं वह्नमुहं इत्याद्यपि || गुणदेवमण्डलाग्र कररुहवृक्षादीनां 'क्लीबे गुणगाः' इति यदा नपुंसकता तदा वैनवत् ॥ निर्माल्यशब्दे 'निष्प्रतीओत् -' इत्यादिना निरः ओ इत्यादेशः । ' संयोगे ' इति ह्रखः । ओमलं || अरण्यशब्दे 'वालाब्वरण्ये' इत्यादेरचो वा लुक् । रणं । अरण्णं || पक्कललाटयोः । 'पक्काङ्गारललाटे तु' इत्यवर्णस्य वा इत्वे । पिक्कं । पक्कं । ललाटे 'खोः करवीरे णः' इत्यतः 'खो:' इत्यधिकृत्य
लो ललाटे च ।। १ । ३ । ८१ ॥
अत्रादेर्लस्य णत्वं भवति । णिलाट इति स्थिते 'टो डः' इति टस्य त्वे 'हश्च महाराष्ट्र होर्व्यत्ययः' इत्यतः 'व्यत्ययः' इत्यधिकृत्य
ललाटे डलोः ।। १ । ४ । ११४ ।।
अत्र डकारलकारयोर्व्यत्ययः स्यात् । णिडालं । इत्वाभावे डालं || द्वारशब्दे 'उत्करवल्ली -' इत्यादिना आदेरवर्णस्य वा एत्वे 'लवरामू -' इति वलोपे । देरं । दारं । 'वा छद्म-' इत्यादिना वकारात्
1
५ जण अडं M. ८ इत्यधिकृत्य M.,
१ कुण्डानि M., R. २ M., R., and T. drop वणानि । वणाई | वणाइ । ३ M. drops शब्द. ४ नपुंसके R., T. ६ कुण्डवत् M., R., T. ७ इत्यधिकृत्य M., R. T.
R.,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org