________________
१०६
षड्भाषाचन्द्रिकायां नाच्चस्य जः । पिसाजी ॥ हरीतकीशब्दे 'ईतः काश्मीर--' इत्यादिना आदेरीकारस्यात्वम् । प्रत्यादित्वात्तस्य वा डत्वम् । हरडई । डत्वाभावे हरअई । अत्र 'प्रायो लुक्-' इति तलोपः॥गुलूचीशब्दे मुकुलादिपाठादादेरुतोत्वम् । 'ओलस्थूणातूण-' इत्यादिना ऊत ओत्वम् । गळोई ।। भृकुटीशब्दे 'रो भृकुटीपुरुषयोः-' इत्यनेन रेफसंबन्धिन उकारस्येत्वं कलोपष्टस्य डत्वम् । भिउडी । कूश्माण्डीशब्दे 'ओलस्थूणातूण-' इत्यादिना ऊत ओत्वे 'बाष्पे होश्रुणि' इत्यतः 'हः' इत्यधिकृत्य
कुश्माण्ड्यां ण्डश्च तु लः॥ १ । ४ । ६४ ॥ __ अत्र युक्तस्य हः स्यात् तत्संनियोगेन ण्डस्य वा लः । कोहल्ली । कोहण्डी ॥ ताम्बूलीशब्दे 'ओल्स्थूणा-' इत्यादिना ऊत ओत्वे 'स्वरस्य बिन्द्वमि' इति हूखे तंबोली ॥ भागिनीशब्दे 'पुन्नागभागिनी-' इत्यादिना कोर्मत्वम् । भामिणी ॥ अतसीशब्दे 'दोहदप्रदीप-' इत्यादिना तस्य लत्वम् । अलसी ॥ कदलीशब्दे 'वेतस इति तोः' इत्यतेः 'तोः इत्यधिकृत्य 'रल् सप्तत्यादौ' इत्यतः 'रल्' इति च
अद्रुमे कदल्याम् ॥ १।३।४३॥
अद्रुमवाचिनि कदलीशब्दे तोः रत्वं भवति । करळी । 'अद्रुमे' इति किम् । कअळी ॥ बिसिनीशब्दे 'बो वः' इत्यतः 'बः' इत्यनुवतते।
बिसिन्यां भः ॥१।३। ६३॥
अत्र बस्य भो भवति । भिसिणी ॥ नीवीशब्दे 'नीवीखप्ने वा' इति वकारस्य वा मः । णीमी । पक्षे णीवी ॥ शमीशब्दे 'छल षट्छमी' इत्यादिना शोश्छत्वम् । छमी ॥ वाराणसीशब्दे 'हश्च महाराष्ट्र होर्व्यत्ययः' इत्यतः 'व्यत्ययः' इत्यधिकृत्य
१ डत्वाभावे तलोपः। M., R., and T. २ M., R., and T. drop अत्र 'प्रायो लुक्-' इति तलोपः। ३ मुकुलादित्वादा' M. ४ इत्यधिकृत्य M., R., T. ५ इत्यधिकृत्य M. ६ इति च M. ७ इत्यनुवर्तते। M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org