SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १०४ षड्भाषाचन्द्रिकायां 'कग-' इति पलोपद्वित्वे । विंशतिः त्रिंशत् पञ्चाशत्- सर्वत्र 'विंशतिषु त्या श्लोपल्' इति विन्दोः 'ति' इत्यवयवेन सह लोपे शित्वात् सर्वस्य दीर्धे । वीसा । विंशतिः । तीसा त्रिंशत् । पञ्चाशत् । पण्णासा । अत्र 'पञ्चदशदत्तपञ्चाशति णः' इति स्तोर्णत्वम् । त्रयाणां रूपाणि जायावत् । सप्तविंशतिः पञ्चविंशतिः इत्यादौ 'दिही मिथः सः' इति हूखस्य दीर्थे । सत्तावीसा । पण्णावीसा । शेषं जायावत् ॥ अन्तर्वेदिः । अत्र रेफलोपे पूर्ववदीर्घः । अंतावेई ॥ ईकारान्तः स्त्री लिङ्गो गौरीशब्दः । 'ऐच एङ्' इत्योत्वम् । गोरी सु इति स्थिते 'नि शिं शिङ् जश्शसोः' इत्यतः 'जश्शसोः' इत्यधिकृत्य 'शो शु स्त्रियां तु' इत्यतः 'स्त्रियां तु' इति च - आदीतः सोश्च ॥ २ ॥ २ ॥ ३३ ॥ स्त्रियामीकारान्तान्नाम्नः परस्य सोः चकाराजश्शसोश्च आस्वं तु भवति । गोरीआ । पक्ष सोलक् । गोरी । जसि । गोरी । गोरीओ। गोरीउ । आत्वे । गोरीआ । संबुद्धौ ‘हखलीदूतः' इति इखः । दे गोरि । शसि जस्वत् । टादौ टाङिङसांङसेः शशाशिशे इत्यादि सर्व रुचिशब्दवत् । एवं तरुणीरमणीप्रभृतयः ॥ स्त्रीशब्दस्य 'स्त्रीभगिनी-' इत्यादिना इत्थीत्यादेशः । इत्थी । श्रीशब्दस्य 'हर्षामर्ष -' इत्यादिना अन्त्यहलः प्रागित्वम् । सिरी । एवं हिरी । अत्रापि 'किपः' इति हखः । शेषं गौरीवत् ॥ नीलीत्याविषु पुंसोजातेझैब् वा ।। २ । २ । ३७ ॥ अजातिवाचिनः पुंलिङ्गात् स्त्रियां वर्तमानात् डीप् प्रत्ययो वा स्यात् । नीली । पक्षे नीला । सहमाणी सहमाणा । सुप्पणही । सुप्पणहा । काळी । काळा । इत्यादि । 'अजातिवाचिनः' किम् । १ पलोपः M. २ इत्यधिकृत्य M., R., T. ३ इति च । M., R., 'T. ४ T. drops शब्द. ५ R. and T. drop रमणी. ६ R. and r'. drop एवम्. ७ सुप्पणहा । सुप्पणही । M. .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy