________________
अजन्तस्त्रीलिङ्गाः ।
१०३
...
इति किम् । आळी सखी ॥ मृत्तिशब्दे 'प्रवृत्तसन्दष्ट -' इत्यादिना स्तोष्टत्वम् । ऋतः अत्वम् । मट्टी । छदिवितद्यः 'डल फोर्म - र्दित इत्यादिना स्तोर्डत्वम् । छड्डी । विअड्डी || समृद्धिप्रवृद्धिप्रतिसिद्ध्यभिजातिषु तु 'समृद्ध्यादौ' इति समृद्ध्यादित्वादादेरचो वा दीर्घः । सामिद्धी । समिद्धी । अत्र कृपादित्वादृत इत्वम् । पासिद्धी । पसिद्धी । पाडिसिद्धी । पडिसिद्धी । अत्र प्रत्यादित्वात्तस्य डत्वम् । आहिआई । अहिआई' । अत्र तजयोर्लोपः । भस्य हः ॥ कृतिसृष्टिशब्दयोः कृपादित्वादृत इत्वम् । किई । सिट्ठी । अत्र 'ष्टः' इति ष्टस्य ठत्वम् ॥ गृष्टिशब्दे वैक्रादित्वाद्विन्दुः । कृपादित्वादृत इत्वं चें । गिंठी गिट्टी इति च दृश्यते । प्रभृति निर्वृतिप्रवृत्तिवृद्धिषु ऋत्वादित्वादृत उत्वम् । पहुडि । पाहुडी । अत्र भस्य हः । प्रत्यादित्वात्तस्य त्वम् | समृद्ध्यादित्वादादेरचो वा दीर्घः । भृतिः । भुई । निर्वृतिः । णिवुई । प्रवृत्तिः । पत्ती | वृद्धिः । उड्डी ॥ वितस्तिशब्दे 'हः कातर' इत्यादिना तस्य हत्वम् । 'स्तः' इति त्वम् । विहत्थी | वसतिशब्दे तु 'वसति भरते—' इत्यनेन तस्य हेत्वं वा स्यात् । वसही । पक्षे वसई ॥ पापर्धिशब्दे 'पो वः' इत्यतः 'पः' इत्यनुवर्तते ' अखो:' इति च
|
1
रपापध ॥। १ । ३ । ५८ ॥
अत्राखो: पस्य रत्वं लित् स्यात् । पारद्धी । मृगया । धृतिशब्दे 'मलिनधृति-' इत्यादिना धृतिशब्दस्य वा दिहि इत्यादेशे दिही । पक्षे धिई || शुक्तिशब्दे 'तिर्यक्पदाति' इत्यादिना शुक्तेः शिष्पि इत्यादेशे सिप्पी । पक्षे सुती । बहुलाधिकारान्नात्र 'स्तौ' इत्युत ओत्वम् । सोत्तीति केचित् । उभयत्र 'कग--' इति पलोपद्वित्वे ॥ सप्ततिशब्दे 'रल सप्तत्यादौ' इति तस्य नित्यं रत्वम् । सत्तरी । अत्र
•
१ युक्तस्य उत्वम् T; युक्तस्य उत्वे एत्वम् R. २ M. has अभिजातिः after it. ३ वक्रादित्वादादिखराद्विन्दुः । M. ४ M. drops च. ५ डः । T. ६ समृद्धयादित्वाद्वा दीर्घः । M. ७ स्तोःथत्वम् M. P. ९ वा हत्वम् । My, P., M.
८ तकारस्य My .,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org