________________
१०२
षड्भाषाचन्द्रिकायां त्वात् पूर्वस्य दीर्घ दाढा । मनःशिलाशब्दे वक्रादौ मनस्विन्याद्यवान्तरगणपाठात् द्वितीयादचः परे बिन्दौ मणंसिळा । मणासिळा ईति च दृश्यते । श्लाघाशब्दे 'प्राक् श्लाघा-' इत्यादिना लात् प्रागत्वम् । घस्य हत्वम् । सळाहा ॥ क्रियाशब्दे 'हर्षामर्ष-' इत्यादिना युक्तस्यान्त्यहलः प्रागित्वम् । किरिआ ॥ ज्याशब्दे 'ईल ज्यायाम्' इत्यनेनान्त्यहलः प्रागील । जीआ। सटाशब्दे 'ढः कैटभशकटसटे' इति टोढत्वम् । सढा ॥ वनिताशब्दे स्त्रीभगिनीदुहितवनितानामित्थीबहिणीदआविळआ वा
॥ १।३। ९७॥ स्त्रीप्रमुखानां इत्थी प्रमुखा आदेशा वा स्युर्यथाक्रमम् ॥ विळआ। वनिता । विळया संस्कृतेपीति केचित् । इत्यादिविशेषा ऊह्याः ॥ इकारान्तः स्त्रीलिङ्गो रुचिशब्दः । 'श्लगनपि सोः' इति शोः श्लुक् । रुई । जसि 'शोशु स्त्रियां तु' इति शितावोदुतौ । रुईओ । रुईउ । पक्षे रुई । संबुद्धौ कविवत् । अमि रुइं । शसि जखत् । 'टाङिङसाम्' इति शशा शिशे रुईअ इत्यादि । भिसि रुई हिं । इत्यादि । जसौ उक्ताः शादयः । पक्षे हिंतो इत्यादयः । ङसि डौ च उक्ता आदेशाः। डौ मिर् च । शेषं कविवत् । एवं मतिप्रभृतयः ॥ विशेषास्तु बुद्धिशब्दे ऋत्वादिपाठाहत उत्वे 'ढोधर्द्धि-' इत्यादिना युक्तस्य वा ढत्वे उढी । अस्त्येव कृपादिपाठात इत्वे इड्डी । डत्वाभावे । उद्धी । इद्धी ॥ आलीशब्दे 'हे दक्षिणेस्य' इत्यतः 'अस्य' इत्यधिकृत्य 'आदेः' इति च
ओदाल्यां पङ्क्तौ ॥ १।२।२९ ॥ पशिवाचिन्यालीशब्दे आदेरवर्णस्य ओत्वं स्यात् । ओळी । 'पनौ'
१ M. drops द्वितीयाद. २ इत्यपि My., P. ३ M. has द्वितीया before it. ४ प्रागित्वम् । T. ५ जिआ। M. ६ यथाक्रम वा स्युः । T.; वा यथाक्रमं स्युः। M. ७ ऊई My. ८ इत्यधिकृत्य R. ९ ओत्वं वा स्यातू T., R.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org