________________
१०१
अजन्तस्त्रीलिङ्गाः। अनयोः ङीब् वा स्यात् । इति डीपि अनुक्तमन्यन्यायेन 'यस्येति च' इत्यकारलोपे । छही । गौरीवत् । ङीबभावे । छाहा । हत्वा भावे । छाऊँ । छाआ। उभयत्र यलोपः ॥ हरिद्राशब्दे 'हरिद्रादौ' इति रेफस्य लत्वम् । 'मूषिकविभीतक-' इत्यादिना इत अत्वम् । युक्तरेफस्य वा लोपः । द्वित्वम् । पूर्वसूत्रेण वा ङीप् । हळद्दी । हळद्दा । अत्र युक्तरेफलोपस्य विकल्पितत्वात् हळद्री । हळद्रा । इत्यप्यस्ति ॥ सुषाशब्दे 'शोः सल्' इत्यतः 'शोः' इत्यधिकृत्य 'प्रत्यूषदिवसदशपाषाणे तु हः' इत्यतः 'तु' इति च
नषायां हः फोः ॥ १।३। ८९ ॥
अत्र फोः द्वितीयस्य शोः ण्ह इत्यादेशस्तु स्यात् । सुण्हा । नात्र 'स्तौ' इत्युत ओत्वम् । बहुलाधिकारात् । पक्षे 'मनयाम्' इति नलोपे । सुसा । नन्वत्र पुरस्फूर्तिकत्वात् 'कग-' इति सलोप एव किमिति न भवति । उच्यते । अनुक्तमन्यन्यायेन विप्रतिषेधे परं कार्यमिति 'मनयाम्' इति सूत्रस्य परत्वान्नलोप एव युक्त इति सन्तोष्टव्यम् ॥ सुधाशब्दे 'छल्पट्छमी-' इत्यादिना शोश्छत्वम् । छुहा । सिराशब्दे 'शोः सल्' इत्यतः 'शोः' इत्यधिकृत्य 'छल्षट्छमी-' इत्यादेः 'छल्' इति च सिरायां वा ॥ १। ३ । ९१॥
अत्र शोश्छत्वं वा स्यात् । छिरा । पक्षे सिरा ॥ स्पृहाशब्दे 'स्पृहादौ' इति युक्तस्य छत्वम् । कृपादित्वात इत्वम् । छिहा ॥ श्रद्धाशब्दे 'ढोधर्द्धि-' इत्यादिना युक्तस्य वा ढः । सट्टा । पक्षे सद्धा । दंष्ट्राशब्दे 'दग्धविदग्ध-' इत्यादिना युक्तस्य ढत्वम् । 'विंशतिषु त्या श्लोपल्' इत्यनेन विंशत्यादिपाठादू बिन्दोः श्लोपलि शि
१ ङीप् M. २ छाई M., T.; T. has छाआ । छाई। ३ हळद्दि । M. ४ हळद्रि । M. ५ इत्यधिकृत्य M., T. ६ इति च M.,T. ७ युक्तः T. ८ इत्यधिकृत्य T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org