________________
षड्भाषाचन्द्रिकायां तम् । टत्वपक्षे 'आ सौ वा' इत्यात्वम् । कट्ठा। टत्वाभावे 'लवराम्-' इति रेफलोपः । शेषद्वित्वम् । कत्ता । 'आरः सुपि' इत्यारश्च । कट्टारो । कत्तारो ॥ जसि । कट्टारा । कत्तारा । 'उदृताम्' इत्युत्वे । कट्टउ । कत्तउ । इत्यादि । संबुद्धौ ‘उ ऋदन्तात्' इत्युत्वम् । दे कट्ट । दे कत्त । नात्र डरमरौ । तयोः संज्ञाविषयत्वात् । शेषमारादेशे रामवदुत्वादेशे कारुवत् । एवं भर्तृहर्तृनेतृप्रभृतयः । ऋकारान्तलकारान्तएंकारान्तश्चाँप्रसिद्धाः । ऐकारान्तः पुंलिङ्गः सुरैशब्दः । 'ऐच ऐङ्' इत्येत्वे एदन्तस्य प्रयोगाभावात् 'स्वार्थे तु कश्च' इति कप्र. त्ययः । ककारलोपः । सुरेओ ॥ जसि । सिद्धावस्थापेक्षया सुरा । दे सुरेअ । दे सुरेओ । सुरेशं । इत्यादि रामवत् । भिस्भ्यस्सुपि सिद्धावस्थापेक्षया 'रायो हलि' इत्याकारश्च । सुराहि । सुराहिंतो । सुरासु । इत्यादि ॥ ओकारान्तः पुंलिङ्गो गोशब्दः । गो सु इति स्थिते 'चपेटकेसरदेवरसैन्यवेदनाखेचस्त्वित्' इत्यतः 'एचः' इत्यनुवर्तते ।
गव्य उदाइत् ॥ १।२।९९ ॥
गोशब्दे एच अउ आइ इत्यादेशौ भवतः । गऊ ॥ जसि । गवउ । गवओ । गववो। इत्यादि । कारुवत् । गाई कविवत् ॥ औकारान्तः पुंलिङ्गो ग्लौशब्दः। लादक्लीबेष्वन्त्यहलः प्रागित्वम् । ऐच एङ् । कप्रत्ययः । गिळोओ। गिळोआ । इत्यादि । रामवत् ।। हसितव्य इत्यादिषु 'अदेल्लुक्यात् खोः-' इत्यतः 'अतः' इत्यधिकृत्य 'मोममुष्विच्च' इत्यतः 'इत्' इति च ।
एच क्त्वातुम्तव्यभविष्यति ॥ २।४ । १८ ॥ क्त्वादिषु परेषु भविष्यत्कालविहिते च प्रत्यये परतोत एत्वं
१ शेषद्वित्वानि M., R. २ इत्युत्वं च M. ३ ओकारान्त M. ४ श्वात्राप्रसिद्धाः । My. ५ एच् M. ६ सुराआ। M. ७ सुरेओ M.
सुरेआ M. ९ सुरेआं M. १० आयि M. ११ गउ गओ गवो M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org