SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः। ९५ कोट्ठउ । कोट्ठणो । कोट्ठवो । उत्वाभावे आरः । कोहारा । अमि । कोट्ठारं । आमि । कोट्टाराणं । नात्रोत्वम् । 'अस्वमामि' इति प्रतिषेधात् । शेषं रामवत् कारुवच्च ॥ ऊकारान्तः पुंलिङ्गः खलपूशब्दः । 'किपः' इति इखः । पस्य वः । खलपू । इत्यादि । कारुवत् । एवं कांडलू स्वयंभू मनोभू प्रतिभूप्रभृतयः ॥ इत्यूकारान्ताः ॥ ऋकारान्तः पुंलिङ्गः पितृशब्दः ॥ पितृ सु इति स्थिते 'असौ' इति ऋत अत्वं तलोपः । सो क् । पिआ । 'आरः सुपि' इत्यधिकृत्य संज्ञायामरः ॥२।२। ५१॥ ऋदन्तस्य संज्ञायां सुपि परे अर इत्यादेशो वा स्यात् । पिअरो॥ जसि पिअरा । 'उहतां त्वस्वमामि' इत्युत्वं च । पिअओ। पिअउ । पिअवो । पिउँ । णो पिउ । संबुद्धौ ‘डोश्लुकौ तु संबुद्धेः' इत्यतः 'संबुद्धेः' इत्यधिकृत्य ड ऋदन्तात् ॥ २ । २।४३ ॥ ऋकारान्तान्नाम्नः परस्य संबुद्धेर्डत्वं तु स्यात् । दे पिअ । नाग्नि डरम् ॥ २ । २ । ४४ ॥ 'संबुद्धेः' इत्यनुवर्तते । नाम्नि संज्ञायां ऋदन्तात् परस्य संबुद्धेः डित् अरमित्यादेशो वा स्यात् । दे पिअरं । 'नाम्नि' इति किम् । दे कत्तार । अरादेशे दे पिअरो। दे पिअर । अमि । पिअरं । आमि । पिअराणं । पिअराण । नान्नोत्वम् । 'अस्खमामि' इति प्रतिषेधात् । आरादेशे रामवदुत्वे कारुवत् । एवं भ्रातृजामातृप्रभृतयः ॥ कर्तृशब्दस्य तु 'तस्याधूर्तादौ टः' इति तस्य टत्वम् । बहुलाधिकारादत्र विकल्पि १ कोट्ठारो M. २ असौ वेत्युत आत्वम् M. ३ भवति for वा स्यात् M., R. ४ पिअणो for पिउ । णो पिउ M. ५ इत्यधिकृत्य M. ६ भवति for स्यात् M. For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy