________________
षड्भाषाचन्द्रिकायां आदिमेरित्वाद् द्वित्वम् । अहिवजू । अहिमजू । अहिवजू । अहिमजू ॥ मन्युशब्दे
वा न्तन्धौ मन्युचिह्नयोः॥१।४ । ३२॥ 'स्तोः' इत्यनुवर्तते । अनयोर्यथाक्रमं त न्ध इत्यादेशौ वा भवतः । मन्तू । पक्षे । मण्णू । अत्र 'मनयाम्' इति । यलोपः ॥ कटुशब्दे 'स्मरकटोरीसरकारौ' इति कटुशब्दस्य वा कारादेशे । कारो । इत्यादि रामवत् । पक्षे । कडू इत्यागृह्यम् ॥ उकारान्तः पुंलिङ्गः क्रोष्टुशब्दः । क्रोष्टु सु इति स्थिते. 'तृज्वत् क्रोष्टुः' 'विभाषा तृतीयादिष्वचि' इति यदा तृज्वद्भावस्तदा 'उदृतां त्वस्वमामि' इत्यतः 'ऋतः' इत्यधिकृत्य __आ सौ वा ॥२।२। ५२ ॥
ऋदन्तस्य सौपरे आत्वं वा स्यात् । क्रोष्टा सु इति स्थिते 'लवराम्-' इति रेफलोपः । 'ष्टः' इति ष्टस्य ठत्वे 'सोर्लक्' इति सोर्लक् । कोट्ठा । यदा आत्वाभावस्तदा
आरः सुपि ॥२।२।४९॥ __ 'ऋताम्' इत्यनुवर्तते । ऋदन्तस्य सुपि परे आर इत्यादेशो भवति । कोट्ठारो । इत्यादि सर्वत्र वचनेषु रामवत् । समासे त्वन्तर्व. र्तिनीं विभक्तिमाश्रित्य रादेशस्तेन कोद्वारकअमित्याद्यपि सर्वत्र ऋकारान्तेषु संचारणीयम् । लुप्तविभक्त्यपेक्षया भर्तार विहिअमिति भवतीति त्रिविक्रमदेववचनात् ।
उदृतां त्वखमामि ॥२।२। ४८॥
'आरः सुपि' इत्यतः 'सुपि' इत्यनुवर्तते । ऋदन्तानामुत्वं वा स्थादखमामि सु अम् आम् वर्जिते सुपि परे ॥ अत्र 'ऋताम्' इति बहुवचनं व्याप्त्यर्थम् । तेन यथादर्शनं नाम्न्युत्वं भवतीति वेदितव्यम् । इति यत्रोत्वं तत्र कारुवत् । सौ । कोट्ठारो । जसि । कोट्टओ ।
१ कटुकशब्दस्य My. २ इत्यधिकृत्य M. ३ M. has कोद्वार after it. 'गप्येव M. ५ 'रान्तेष्वपि M. ६ त्रिविक्रमवचनात् R., T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org