________________
अजन्तपुंलिङ्गाः।
अथोकारान्तेषु केचिद्विशेषाः प्रदर्श्यन्ते । पशुशब्दे वक्रादित्वाहिन्दुः । पंसू ॥ पांसुशब्दे 'लुङ् मांसादौ' इति मांसादित्वादित्वाद् बिन्दोर्वा लुक् । पासू । पक्षे 'खरस्य विन्द्वमि' इति इखे । पंसू ।। स्थाणुशब्दे 'स्तोः' इत्यधिकृत्य 'क्ष्वेडकगे खल्' इत्यतः 'खल्' इति च । स्थाणावहरे ॥ १।४।९॥
अहरवाचिनि स्थाणुशब्दे स्तोः खत्वं लित् स्यात् । खाणू । अस्य दैवादिपाठाद् द्वित्वे खण्णू । हरे तु धाणू । अत्र 'कग-' इति सलोपः । इक्षुप्रवासिशब्दयोः 'द्विनीक्षुप्रवासिषु' इत्यनेन आदेरित उत्वम् । उच्छू । अस्य स्पृहादित्वात् क्षस्य छः । पैवासू । पावासू । प्रवासी । अत्र समृध्यादिपाठादादेरचो वा दीर्घः ॥ कृशानुशब्दे कृपादित्वाहत ईत् । किसाणू । भृगुः । भिऊ । मृत्युशब्दे 'शृङ्गमृगाङ्कमृत्यु-' इत्यादिना वा ऋत इत्वम् । मिचूं । पक्षे अत्वम् । मँचू । उभयत्र 'त्योचैत्ये' इति त्यस्य चः ॥ ऋतुऋजुशब्दयोः ऋत्वादिपाठाहत उत्वम् । ऋतुः । उऊ । ऋजुः । उज्जू । अत्र तैलादित्वाद् द्वित्वम् । अनयोरेव 'ऋतुऋजुऋण-' इत्यादिना ऋतो वा रित्वे रिऊ । रिजू ॥ अभिमन्युशब्दे 'बो वः' इत्यतः 'वः' इत्यधिकृत्य
त्वभिमन्यौ मः॥१।३। ६५ ॥ अत्र मस्य वो वा भवति । अहिवण्णू । अहिमण्णू ॥ अत्रैव त्वभिमन्यौ जजौं ॥ १। ४ । २५॥ 'स्तोः' इत्यनुवर्तते । अत्र स्तोः जर ज इत्येतावादेशौ वा भवतः ।
१ केषुचिद् T. २ My. and P. drop मांसादित्वात्. ३ My. has पावासू । पवासू । प्रवासी। ४ इल् My. ५ मिळू T. ६ ऋत अत्वम् M., T. ७ मच्छू M. ८ ऋत्वादित्वात् M. ९ उः My, P. १. 'ऋतुऋण-' इत्यादिना My. ११ ऋत्वे My.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org