________________
९२
षड्भाषाचन्द्रिकायां ति ॥२।३। ३२ ॥ त्रिशब्दस्य टादौ तृतीयादौ सुपि परे ति इत्यादेशो भवति । तिहिं । तिहि । तिहि । शेषं द्विशब्दवत् । द्विज्योलिङ्गत्रयेपि समानं रूपम् ॥ विधिशब्दे धस्य हत्वे विही । अस्याञ्जल्यादिपाठात् स्त्रीलिनेपि प्रयोगः । एवं बलिनिधिग्रन्थीनामपि स्त्रीलिङ्गे प्रयोगः ॥
. इति इकारान्ताः ॥ ईकारान्तः पुंलिङ्गो ग्रामणीशब्दः । 'विपः' इति हवः । गामणी ॥ जसि । गामणउ । गामणओ । गामणिणो ॥ संबुद्धौ तु 'डोश्लुको तु संबुद्धेः' इत्यतः 'संबुद्धेः' इत्यधिकृत्य
इस्वलीदूतः ॥२।२।४६ ॥
संबुद्धिनिमित्तयोरीदूतोहखो लिग्भवति । दे गामणि । शेष कविशब्दवत् ॥ एवमग्रणीसेनानीवातप्रमीसुधीसुश्रीप्रभृतयः ।।
इति ईकारान्ताः ॥ उकारान्तः पुंलिङ्गः कारुशब्दः । एकवचनं कविशब्दवत् । कारू॥ जसि । 'पुंसो जसो डउ डओ' इत्यधिकृत्य 'चतुरो वा' इत्यतः 'वा' इति च
डवो उतः॥२।२। २५॥ __पुंलिङ्गादुतः परस्य डित् अवो इत्यादेशो वा भवति । कारवो । पक्षे डउ डओ च । कारउ । कारओ ॥ संबुद्धौ ‘डोग्लुकौ तु संबुद्धेः' . इति वा श्लुक् । दे कारू । श्लगभावे 'सोर्लक्' इति लुक् । दे कारु। उकारान्तत्वमेव विशेषः । शेषं कविवत् । एवं वायुसेतुप्रभृतयः ॥
१ तीहिं । तीहि । तिहि । P., My.; M. has तिहि । तिहिङ् । तीहि । २ इत्यधिकृत्य M. ३ T. drops शब्द. ४ °सुश्रीसुधी° T. ५ M. drops इति ईकारान्ताः । ६ M., R. and T. drop शब्द. ७ इति बा। M. ८ स्यात् । M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org