________________
अजन्तपुंलिङ्गाः ।
९१
तत्रापि दो वे स्याताम् । तथा च द्विशब्दस्याप्येकवचनतापातः । तत्तु विरुद्धम् । तस्मादतद्गुणबहुव्रीहिमाश्रित्य भिसादीनामेव विधेयान्वयो न तु टावचनस्य । अथ यद्यतद्गुणबहुव्रीह्माश्रयणाद्विसादीनां विधेयान्वयस्तर्हि साद्येकवचनानामपि भिसादित्वात् तेषामपि विधेयान्वयापात इति तदिदमविदितमीमांसावृत्तान्तस्य भाषितम् । यथा हस्तेनावद्यति । सुवेणावद्यति । स्वधितिनावद्यति । इत्यत्र हस्तादीनां सामान्येन द्रवसहिताज्यमांसपुरोडाशाद्यवदानसाधनत्वे प्रतीतेपि सामर्थ्यपर्यालोचनया हस्तादीनामवदानविशेषान्वयः कल्पितस्तथात्रापि भिसादीनां सर्वेषां सामान्येन विधेयान्वये प्रतीतेपि एकवचनसामर्थ्यापर्यालोचनया ऐसाद्येकवचनानां द्विशब्दे विधेयान्वयः परिहर्तव्यः । यद्वा 'दो वे टादौ' इत्यत्र द्विशब्दस्य नित्यद्विवचनवाचित्वेपि गौणतायामेकवचनस्यापि संभवाट्टाद्येकवचनेष्वप्येतयोः प्रयोग इत्यलं सूत्रकलह चर्चया । प्रकृतमनुसरामः । भिसि दो भिस् वे भिस् इति स्थिते हिमादयः पूर्ववद् भिसादीनां विधेयाः । दोहिं । दोहिं । दोहि । एवं वेहिं । इत्यादि । भ्यसि । दोहिंतो । दोत्तो । दोओ । दोउ । दोसुंतो । एवं वेहिंतो । इत्यादि । आमि
ह ह संख्याया आमोविंशति ।। २ । ३ । ३३ ॥
संख्यायाः परस्यामः ण्ह ण्हं इत्येतावादेशौ भवतः अविंशतिगे विंशत्यादीन् वर्जयित्वा । दोण्ह । दोहं । वेण्ह । वेण्हं । दोसुं । दो | सुं । सु ॥ त्रिशब्दस्य 'चतुरो जश्शस्भ्याम् —' इत्यतः 'जशूशस्भ्याम्' इत्यनुवर्तते ।
तिणि त्रेः ॥ २ । ३ । २९ ॥
· त्रिशब्दस्य जश्शस्भ्यां सह तिण्णि इत्यादेशो भवति । जसि । तिण्णि । शसि । तिण्णि । 'दो वे टादौ च' इत्यतः 'टादौ' इत्यधिकृत्य
१ द्विसादीनामेव M. २ विदितं T. ४स्या M. ५ द्विशब्देन M. ६ ज्ञेयाः T .
३ साधनत्वेपि My ., P. ७ वे । वेह | M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org