SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ . षड्भाषाचन्द्रिकायां सो बृहस्पतिवनस्पत्योः॥१।४।७४ ॥ 'तो ढोरश्वारब्धे तु' इत्यतः 'तु' इत्यनुवर्तते । अनयोर्युक्तस्य वो सः स्यात् । इति स्पस्य वा सत्वे । बिहस्सई । बुहस्सई । बहस्सई । भियस्सई । भुयस्सई । भयस्सई ॥ यदा युक्तस्य फत्वसत्वयोरभावस्तदा 'कग-' इति सलोपे शेषस्य द्वित्वे बिहप्फई इत्यादीनि षड् रूपाण्युदाहर्तव्यानि । इति बृहस्पतिशब्दस्याष्टादश प्रकाराः॥ वनस्पतिशब्दे 'सो बृहस्पतिवनस्पत्योः' इति वा युक्तस्य सत्वे वणस्सई । सत्वाभावे 'प्पस्फोः' इति फः । वणप्फई ॥ द्विशब्दस्य सर्वत्र बहुवचनमेव । 'चतुरो जश्शस्भ्याम्-' इत्यतः 'जश्शस्भ्याम्' इत्यधिकृत्य दोण्णि दुवे बेण्णि द्वेः ॥ २।३ । ३०॥ द्विशब्दस्य जश्शस्भ्यां सह दोण्णि दुवे बेण्णि इति त्रय आदेशा भवन्ति । दोण्णि । दुवे । बेण्णि । इति स्थिते 'संयोगे' इति हखे कर्तव्ये अनुक्तमन्यन्यायेन एच इग्घ्रस्खादेश इति इगेव भवति । दुण्णि पुरिसा । विण्णि पुरिसा । अत्रानुक्तन्यायेन ईंग्णखो नास्तीति केचित् । तदा दोण्णि । बेण्णि । दुवे । 'दोवे टादौ च' इति विधास्यमानौ दो वे इत्यादेशावपि । तथा च जसि । दोण्णि । दुण्णि । बेण्णि । बिण्णि । दो । वे । दुवे । शस्येतान्येव । दो वे टादौ च ॥२।३।३१ ॥ 'द्वेः' इत्यनुवर्तते । द्विशब्दस्य टादौ तृतीयादौ सुपि परे चकाराजशशस्भ्यां सह दो वे इत्यादेशौ भवतः । अत्र सूत्रे 'टादौ' इत्यत्रीतद्गुणं बहुव्रीहिमङ्गीकृत्य टावचनस्य विधेयान्वयः परिहर्तव्यः । अन्यथा १ M. drops 'तो ढो रश्वारब्धे तु' इत्यतः 'तु' इत्यनुवर्तते २ सो वा M. ३ शेषद्वित्वे M. ४ इत्यादि M. ५ शब्दरूपस्य M. ६ सत्वम् । T. My. and P. drop सर्वत्र. ८ हखो M. ९ M. drops दोण्णि । १० R. and T. add इति सप्तादेशाः after it. ११ My. M. and P. drop 'वैः' इत्यनुवर्तते। १२ तृतीयादौ is dropped by M., R., T. १३ त्रातहणसंविज्ञानबहुव्रीहि P., My. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy