SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अजन्तपुंलिङ्गाः। रस्य वा रिः । रिसी । पक्षे । कृपादित्वादिल । इसी । अग्निशब्दे 'स्नेहाम्योर्वा' इति सूत्रेण युक्तस्यान्त्यहलः प्राग्वा अत्वे । अगणी । पक्षे । अग्गी । अत्र 'मनयाम्' इति नेलोपः । शेषद्वित्वं च ॥ पदातिशब्दे तिर्यक्पदातिशुक्तस्तिरिच्छिपायिकसिप्पि ॥ १।३।१०४ ॥ तिर्यगादेस्तिरिच्छयादय आदेशा यथाक्रमं वा स्युः । इति पायिकादेशे । पायिको ॥ शेषं रामवत् । पक्षे । दैतयोर्लोपे । पआई ॥ अक्षिशब्दे 'अक्ष्यर्थकुलाद्या वा' इति पुंलिङ्गतायां स्पृहादित्वात् क्षस्य छत्वे । अच्छी । अस्यैवाञ्जल्यादिपाठात् स्त्रीलिङ्गेपि प्रयोगः ॥ रश्मिशब्दे मलोपे रस्सी । नात्र 'श्मष्म-' इत्यादिना मादेशः । 'अस्मररश्मौ' इति प्रतिषेधात् ॥ किरिशब्दे 'किरिबेरे डः' इत्यनेन रेफस्य डत्वम् । किडी ॥ शौद्धौदनिशब्दे 'शोण्डगे' इत्यनेन शोण्डादिपाठादादेरेच उत्वम् । सुद्धोअणी ॥ बृहस्पतिशब्दे 'ऋतोत्' इत्यधिकृत्य 'इदुन्मातुः' इत्यतः 'इदुः' इति च तु बृहस्पती ॥१।२। ८५॥ अत्र ऋत इदुतौ वा भवतः । पक्षे अत्वम् । तथा च बिहस्पति बुहस्पति बहस्पति इति स्थिते भ्यौ बृहस्पतौ तु बहोः ॥ १।३ । ७५ ॥ अत्र बकारहकारयोर्यथाक्रम भकारयकारौ भवतः। तथा च भियस्पति । भुयस्पति । भयस्पति । पक्षे उक्तानि त्रीणि रूपाणि । एवं षट्खपि रूपेषु 'प्पस्पोः फः' इत्यतः 'फः' इत्यधिकृत्य श्लेष्मबृहस्पतौ तु फोः ॥ १।४ । ४६॥ __अनयोः फोर्द्वितीयस्य स्तोः फो वा स्यात् । इति फत्वे बिहप्फई । बुहप्फई । बहप्फई । भियप्फई । भुयंप्फई । भयप्फई । फत्वाभावे १ प्रागत्वे M.; प्रागत्वं वा स्यात् R., T. २ नलोपः शेषद्वित्वे च । M.; नलोपे शेषद्वित्वम् । R. ३ स्तिरिच्या' M. ४ तदयोर्लोपे My:, P. ५ म्हादेशः। M. ६ भेरे M. ७ इति च M. ८ तु भवतः । M. ९ भुअप्फई। M. १० भअप्फई । M. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001877
Book TitleShadbhashachandrika
Original Sutra AuthorN/A
AuthorKamlashankar Pranshankar
PublisherRajkiya Granthamaladhikar Mumbai
Publication Year1916
Total Pages646
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy