________________
षड्भाषाचन्द्रिकायां ठस्य ढत्वम् । कृतरामपादपतनः । केअरामपावडणो । कैअरामपाअवडणो । अत्र प्रत्यादित्वात् तस्य डः । दुर्गादेवीरमणः । दुग्गाईरमणो । दुग्गादेईरमणो । उदुम्बरः । उंबरो । उउंबरो । 'अन्तर्' इति किम् । दुर्गादेव्यामादौ मा भूत् ॥
व्याकरणप्राकारागते कगोः ॥ १।३।९३ ॥
'लुक्' अनुवर्तते । 'अचा' इति च । व्याकरणादिषु ककारगकारयोरचा सह लुग्वा स्यात् । व्याकरणपाठः । वारणपाढो । वाअरणपाढो । प्राकारः । पारो । पाँआरो । आओ । आअओ । आगतः ॥ एवमेवदेवकुलप्रावारयावज्जीवितावटावर्तमानतावति वः
॥१।३।९४ ॥ एवमेवादिष्वन्तर्वर्तमानस्य वकारस्य अचा सह लुग्वा स्यात् । देवकुलनाथः । देउलणाहो । देवउलणाहो । पारो । पावारो । प्रावारः । जीअणाहो । जीविअणाहो । जीवितनाथः । अडो । अवडो । अवटः । अत्र 'टो डः' इति टस्य डत्वम् । अत्तमाणो । आवत्तमाणो। आवर्तमानः । 'अन्तर' इति किम् । एवमेवेत्यत्रान्त्यस्य मा भूत् ॥ - ज्योर्दनुजवधराजकुलभोजनकालायसकिसलयहृदयेषु
॥१।३।९५॥ दैनुजवधादिषु ज्योर्जकारयकारयोरचा सह लुग्वा स्यात् । देणुवहो । दणुअवहो । दनुजवधः । राँउलप्पसूओ। राअउलप्पसूओ । राजकुलप्रसूतः । भोणप्पिओ । भोअणप्पिओ। भोजनप्रियः । इत्यादि ॥
१ कृतपादपतनः। R. २ कअपावडणो R. ३ कअपाअवडणो R. ४ °मादेर्मा My., P. ५ पाअरो M. ६ आगतः। आगओ। आओ । M. ७ वस्य R. ८ देउलणहो। M. ९M. drops देवउलणाहो। १० पाअरो। M. ११ M. drops प्रावारः। १२ जीवितनाथः । जीअणाहो । जीविअणाहो। १३ M., My. and P. drop अत्र 'टो डः' इति टस्य डत्वम् । १४ दनुजादिषु R. १५ दनुजवधः । दणुवहो। M. १६ राजकुलप्रसूतः। राउलप्पसूदो । राअवुलप्पसूदो । M. १७ M. drops भोअणप्पिओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org