________________
' अटि पुटि रटिं' भणते र( अ )न्ध्र कुमरो पलोएइ ॥ इअ अहारस देसीभासाउ पुलइऊण सिरिअत्तो । अण्णाई अ पुलएई खस-पारस-बब्बरादीए ॥"
-कुवलयमालाकथायाम् । [जे. भां, ता. १३१-२] देशभाषाण उद्धतैरुपरितनैः कुवलयमालाया उल्लेखैरवगम्यते खलु तत्तद्देशभाषाणां
प्राचीनता प्राचीनतेति तदर्वाचीनताविषयकं केषाञ्चिदभिमतं निरस्तं भवति । पादलिप्ताचार्यादिविरचितदेशीशास्त्रपरिशीलनेन विरचिते देशीशब्दसङ्ग्रहे सूच्यते खलु हेमचन्द्राचार्येण देशविशेषप्रसिद्धशब्दानामनन्तत्वमशक्यसर्वसङ्ग्रहत्वं च । बृहत्कल्पप्रभृतिषु जैनसिद्धान्तग्रन्थेषु महाभारत-नाट्यशास्त्र-कामशास्त्र-विष्णुधर्मोत्तर-मृच्छकटिक-मुद्राराक्षस-कादम्बरी-दशरूपकप्रभृतिष्वन्यग्रन्थेष्वपि देशभाषाणां स्मरणान्यवाप्यन्ते। तथाहि
'नाणाविहदेसभासन्न xx गुणसयकलिओ जुत्तो(ग्गो) पवयणसारं परिकहेठं ।' [बृहत्कल्पे प. ४५, दशवैकालिकवृत्तौ प. ५ उद्भियते हरिभद्रसूरिणा] "ौणादेसीकुसलो नाणादेसीकप्पस्स सुत्तस्स । अभिलावे अत्थकुसलो होई तओऽणेण गंतव्वं ॥"
-बृहत्कल्पे [उ. ६, वृ. प. ८३१] १ 'अटि पुटि रर्टि' भणत मान्ध्रान् कुमारः प्रलोकते ॥ इत्यष्टादश देशीभाषाः प्रलोक्य श्रीदत्तः ।
अन्यांश्च प्रलोकयति खस-पारस-बर्बरादीन् ॥ २ " इदानीं नानादेशप्रसिद्धभाषास्वतिव्याप्तिवारणाय देशीलक्षणमाहदेसविसेसपसिद्धीइ भण्णमाणा अणतया हुंति । तम्हा अणाइपाइयपयट्टभासाविसेसओ देसी ॥
देशविशेषा महाराष्ट्र-विदर्भाभीरादयस्तेषु प्रसिद्धया मगा पश्चात, निकइला जितः, उक्खुरुहुंचिओ उत्क्षिप्तः, प्रेयंडो धूर्तः, हिजो जारः, विडो प्रपञ्चः, दढ-मूढो मूर्ख एकग्राही इत्येवमादयः शब्दा यदि उच्येरन् तदा देशविशेषाणामनन्तत्वात् पुरुषायुषेणापि न सर्वसङ्ग्रहः स्यात् ; तस्मादनादिप्रवृत्तप्राकृतभाषाविशेष एवायं देशीशब्देनोच्यते इति नातिव्याप्तिः । यदाह
‘वाचस्पतेरपि मतिर्न प्रभवति दिव्ययुगसहस्रेण । देशेषु ये प्रसिद्धास्तान् शब्दान् सर्वतः समुच्चेतुम् ॥"
-देशीनाममालायाम् [ गा. ४. ] ३ नानाविधदेशभाषाज्ञः x x गुणशतकलितो योग्यः प्रवचनसारं परिकथयितुम् । ४ नानादेशी( देशभाषा )कुशलो नानादेशीकल्पस्य सूत्रस्य ।
अभिलापेऽर्थकुशलो भवति ततोऽनेन गन्तव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org