________________
चन्द्रकुलीनोऽसावुद्योतनसूरिमहाद्वारनिवासिक्षत्रियोद्योतनस्य पौत्रो वटेश्वरस्य च तनय आसीदित्यादिनिजपरिचयं स्वयं तत्प्रशस्तावसूचयत् ।
१ कवेर्जनको वटेश्वरः स एव कवेर्गुरोस्तत्त्वाचार्यस्य गुरुरासीदिति तत्प्रशस्तितो ज्ञायते-उत्तरापथे चन्द्रभागासरितस्तीरे स्थिता पर्वतिकापुरी तोरराजस्य राजधान्यासीत् । तोरराजस्य गुरुणा गुप्तवंशीयहरिगुप्ताचार्येण तत्र निवेशो दत्तोऽभूत् । तस्य शिष्यो महाकविर्देवगुप्तनामा तथा शिवचन्द्रगणिमहत्तरश्च । स जिनवन्दनहेतवे भ्राम्यन् क्रमेण भिल्लमालनगरे संस्थितः । तस्य शिष्यो यक्षदत्तगणिनामा क्षमाश्रमणो महात्मा त्रैलोक्येऽपि प्रकटयशा आसीत् । तस्य प्रभूताः शिष्यास्तपो-वीर्यवचन-लब्धि-सम्पन्ना आसन्, यैर्देवगृहेगूर्जरदेशो रम्यः कृतः; ते च षडिमे आसन्- १ नागः, २ वृन्दः, ३ मम्मटः, ४ दुर्गः, ५ आचार्योऽग्निशर्मा, ६ वटेश्वरश्च । तेन ( वटेश्वरेण ) आकाशवप्र(?)नगरे रम्यो जिनालयो निर्मापित आसीत्, तस्य मुखदर्शनादेव प्रकुपितोऽपि प्रशाम्यति स्म । तस्यान्तिमः शिष्यस्तत्त्वाचायनामा तपः-शीलादिगुणवानासीत् । तस्य शिष्येण ह्रीदेवीदत्तदर्शनमनसा विलसद्दाक्षिण्यचिह्नेनैषा कुघलयमालाकथा रचिता । आचार्यवीरभद्रो हरिभद्रश्चैतस्य विद्यागुरू स्त इत्यादीत एव ज्ञायते"अस्थि पुहईपसिद्धा दोण्णि पहा दोण्णि चेय देस त्ति । तत्थ त्थि पहं णामेण उत्तरावहं बुहजणाइण्णं॥ सुइदिअचारुसोहा विअसिअकमलाणणा विमलदेहा । तत्थरिथ जलहिदइआ सरिआ अह चंदभाय ति॥ तीरम्मि तीय पयडा पव्वइया णाम रयणसोहिल्ला । जत्थ त्थि ट्रिए भुत्ता पुहई सिरितोरराएण ॥ तस्स गुरू हरिउत्तो आयरिउ आसि मुत्तवंसाउ । तीय णयरीय दिण्णो जेण णिवेसो तहिं काले ॥ तस्स वि सिस्सो पयडो महाकई देवउत्तणामो त्ति । .........सिवचंदगणी यह मयहरो त्ति ॥ सो जिणवंदणहेउं कह वि भमंतो कमेण संपत्तो । सिरिभिल्लमालणयरम्मि संठिउ कप्परुक्खो व्व ॥ तस्स खमासमणगुणा णामेण जक्खयत्तगणिणामो । सीसो महइ महप्पा आसि तिलोए वि पयडजसो॥ तस्स य प( ब )हुयसीसा तववीरिअवयणलद्धिसंपण्णा । रम्मो गुज्जरदेसो जेहि कउ देवहरएहिं ॥ णागो विंदो मम्मड दुग्गो आयरियअग्गिसम्मो य।छटो वडेसरो छम्मुहस्स वअणस्स ते आसि ॥ आगासवप्पणरो जिणालयं तेण णिम्मवियं रम्मांतस्स मुहृदंसणे चिअ अवि पसमइ जो अच्चत्थो वि॥ तस्स वि सीसो अंतो तत्ताअरिउ त्ति णाम पयडगुणो । आसि तवतेय णिज्जियपविगयमोहो॥
.................सीलंगविउलसालो लक्खणरुक्खो व्व णिकंपो । सीसेण तस्स एसा हिरिदेवीदिण्णदसणमणेण । रइया कुवलयमाला विलसियदक्खिण्णइद्धण॥ दिण्णजहिच्छियफलउ बहुकित्तीकुसुमरे हिराभोउ ।आयरियवीरभद्दो अत्थावरो कप्परुक्खो व्व ॥ सो सिद्धतेण गुरू जुत्तीसत्थेहि जस्स हरिभद्दो । बहुसत्थगंथवित्थरपत्थरियपयडसव्व(च)त्यो ॥"
-कुवलयमालाकथायाम् [ जे. भां. ता. प. २५२-३ ] दाक्षिण्यचिह्ननोद्योतनाचार्याभिधेनैतेन कविना पादलिप्त-सातवाहन-छप्पण्णय (षट्पर्णक)गुणाढ्य--व्यास-वाल्मीक-बाण-विमलाङ्क-देवगुप्त-हरिवंशकार-सुलोचनाकार-प्रभञ्जन-रविषेण(?)भवविरहाङ्कप्रभृतिमहाकवीनां तरङ्गवती-कोश(गाथासप्तशती)-छेकभणिति- बृहत्कथा-भारत-रामायणकादम्बरी-प्राकृत-त्रिपुरुषचरित-हरिवंश-सुलोचना-यशोधरचरित-पद्मचरित-समरमृगाङ्ककथाकृतयः कुवलयमालाकथाप्रारम्भे प्रशंसिताः । तत्र च त्रिपुरुषचरितकारो महाकविर्देवगुप्तस्तूपरि यथाऽसूचि तथा तोरराजगुरुगुप्तवंशीयहरिगुप्तस्य शिष्यः, कुवलयमालाकर्तुश्च तस्यैव पूर्वजो ज्ञायते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org