________________
मणिसमुपेते काव्यानुशासने स्वोपज्ञाभिधानचिन्तामणिवृत्त्युपेतायां नाममालायां च प्रत्यपादि, अनादिप्रवृत्तप्राकृतभाषाविशेषो देशीति देशीनाममालायां प्रादर्शि, प्रमाणमीमांसायां विद्यानामनादित्वं न्यरूपि, इमाः सकला वाचः प्राकृतमहार्णवाद् निर्गता इति निरूपयितुर्वाक्पतिराजस्य कृतेर्गोडवधस्योदाहरणानि च निजे प्राकृतशब्दानुशासने न्यदर्शिषन्त; तस्याशयो यथा 'प्राकृतभाषा संस्कृतभाषातः समुत्पन्ना' इति कल्प्यते तथा नैव सम्भावयामः, प्रत्युत तेन प्राकृतभाषायाः प्राग्भवत्वं प्रत्यष्ठापि, तच्च कुमारपालप्रबन्धत उद्धृत्योपरि समटङ्कि। अत्र विषये बहु वक्तव्यमपि भूमिकाया विस्तार भयादियताऽपि विरम्यते ।
जिनवर-गणधरैर्निजसिद्धान्तः प्राकृतभाषायां प्राणायीति अर्धमागधी भाषा -
" मा प्राक् प्रमाणपूर्व प्रादर्शयम् | ऋषीणां चेदं प्राकृतमार्षप्राकृतसंज्ञयाऽप्युच्यते । सामान्यप्राकृतात् किञ्चिद्वैशिष्टयोपेतं चैतादृग् अर्धमागधीभाषानाम्ना पुरातनैाहारि । जैनसिद्धान्तादिगतोल्लेखदर्शनेन परिज्ञायते खल्वर्धमागधीभाषायाः प्रतिष्ठा । अन्तिमस्तीर्थकृद् भगवान् महावीरस्तथाऽन्येऽपि सर्वे तीर्थङ्करा अस्यामेव भाषायां धर्ममुपदिशन्ति स्म । पुराणं जैनसिद्धान्तसूत्रमेतद्भाषानियतमाम्नायते । देवा अप्येतां भाषां भाषन्ते । एषैव भाषा भाष्यमाणाऽन्यभाषाभ्यो विशिष्यते । भाषाऽऽर्याश्चैतस्यां भाषायां भाष्यमाणायां भाष्यन्ते । संस्कृतप्रधाने नाट्ये चेट- राजपुत्र-श्रेष्ठिप्रभृतीनां पाठ्यत्वेनास्या एव नियोजना निरदेशि तद्विदैः । एतत्प्रतिष्ठापका उल्लेखाश्चेमे
१ " देसविसेसपसिद्धीइ भण्णमाणा अणंतया हुंति ।
तम्हा अणाइपाइयपयट्टमासाविसेसओ देसी ॥ स्वोपज्ञव्याख्या-तस्मादनादिप्रवृत्तप्राकृतभाषाविशेष एवायं देशीशब्देनोच्यते ।"
-देशीनाममालायाम् [ ४ ] २ “ ननु यदि भवदीयानीमानि जैनसिद्धान्तसूत्राणि, तर्हि भवतः पूर्व कानि किमीयानि वा तान्यासन्निति ।
अत्यल्पमिदमन्वयुडक्थाः, पाणिनि-पिङ्गल-कणादाक्षपादादिभ्योऽपि पूर्व कानि किमीयानि वा व्याकरणादिसूत्राणीत्येतदपि पर्यनुयुड्क्ष्व ।
अनादय एवैता विद्याः संक्षेप--विस्तरविवक्षया नव-नवीभवन्ति, तत्तत्कर्तृकाश्चोच्यन्ते । किं नाश्रीषीन कदाचिदनीदृशं जगदिति ॥"
-प्रमाणमीमांसायाम् । ३ 'हेट्रियसूरनिवारणाय-[ गउडवहे गा. १५; हैम. ८।४।४४८ ] 'अत्थालोअणतरला-' [ गउडवहे गा. ८६; हेम. ८।१।७ ] ‘उवमासु अपज्जतेभ-' [ गउडवहे गा. १८८; हैम. ८1१।७] 'विससिजन्तमहापसु-' [ गउडवहे गा. ३१९; हैम. ८।११८ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org