________________
संस्कृतभाषातः प्रादुर्भूतेत्याम्नातम् । ततः खलु लक्षणेऽपि कोचिच्छब्दाः संस्कृतप्रकृतित्वेन, न सिध्यन्ति, लक्ष्येषु च दृश्यन्ते, तेषां शुद्धताज्ञापनाय — दाढादयो बहुलम् ' [परि०४,३४] इति सूत्ररचना प्राकृतप्रकाशे कृता विलोक्यते । भामहेन तदित्थं व्याख्यातम् 'आदिशब्दोऽयं प्रकारे तेन सर्व एव देशसङ्केतप्रवृत्तभाषाशब्दाः परिगृहीताः' इत्युक्तम् । प्राकृतमञ्जयो प्राकृतप्रकाशस्य पाविवृतौ च तदित्थं विवेचितम्"एषामपरिमेयत्वाद् दाढाऽऽदीनां पदं प्रति । न शक्या गणना बीचीर्गणयेत् को नु सागरे?॥ याः सर्वलोकसामान्याः संस्कृतानन्विता गिरः । अट्टमट्टप्रभृतयस्ताश्चाप्यत्रैव दर्शयेत् ॥ संस्कृतप्रकृतित्वेन येन सिध्यन्ति केवलम् । तेषां लक्ष्येषु शब्दानां दाढादित्वं विमृश्यताम्॥"
संस्कृतयोनि-संस्कृतभव-तजप्रभृतिशब्दानामप्याकूतमितोऽन्यद वितळमाणं न समीचीनमाभाति । मानवानां सहजवचनव्यापाररूपप्रकृतिभवाः स्वभावसिद्धाः प्राग्भवा अपि प्राकृतशब्दास्तत्र तत्र शब्दानुशासने तु संस्कृतप्रकृतिमुपादाय संस्कृतसंस्कारोत्कर्षणपूर्व ज्ञापिता यावत् प्रदर्शिता एवं च संस्कृतप्रकृतौ साधिता अत एवोपचारात् ते तत्र संस्कृतयोनयः संस्कृतभवाः संस्कृतजा इत्यादिरूपेणोच्चार्यन्ते, परमार्थतस्तु ते प्रागेव सिद्धाः। अत एव वाक्यतिराजेन गौडबधे-'सकलाश्चेमा वाचः प्राकृतमहार्णवाद् नियान्ति, तत्रैव च प्रविशन्ति ' इत्याद्युदगारि, यायावरीयराजशेखरेण काव्यमीमांसायाम्-' तद् योनिः किल संस्कृतस्य ' इत्यादि वदता तदेवासूचि, नमिसाधुना रुद्रटीयकाव्यालङ्कारस्य टिप्पनेऽपि च तथा व्याख्यायि [ भूमिका पृ० ८० ].
हेमचन्द्राचार्यस्याशयोऽस्मादन्यथा न सम्भाव्यते । येन हेमचन्द्राचार्येण निजे प्राकृतशब्दानुशासने उदाहृतिनिदर्शने जैनसिद्धान्तसूत्रपाठा उदाहार्यन्त, तत्प्रणेतृणां सर्वेषां तीर्थङ्कराणां च भाषा प्राकृतापरसंज्ञाऽर्धमागधी भवतीति स्वोपज्ञालङ्कारचूडा
१ 'उसभमजिअं च वन्दे 'नामस्तवे [ हैम. ८1१।२४] 'देवं नाग-सुवण्ण--'-श्रुतस्तवे [ हैम. ८।१।२६ ] 'लोगस्सुज्जोअगरा'-नामस्तवे [ हेम. ८1१।१७७ ] ‘चउवीसं पि जिणवरा' -नामस्तवे [ हैम. ८।३।१३७ ] 'तेणं कालेणं तेणं समएणं'-कल्पसूत्रे [ हैम. ८।३।१३७ ] २ " अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् । सर्वभाषापरिणतां जैनी वाचमुपास्महे ॥ . एकरूपाऽपि हि भगवतोऽर्धमागधीभाषा वारिदविमुक्तवारिखदाश्रयानुरूपतया परिणमति।"
-काव्यानुशासने [ १,१] 'वाणी भाषा अर्धमागधी नर-तिर्यक्-सुरलोकभाषया संवदति तद्भाषाभावेन परिणमतीत्येवंशीला
-हैमीनाममालायाम् [ १,५९ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org