________________
तथा वाग्भट:--- 'संस्कृतं स्वर्गिणां भाषा शब्दशास्त्रेषु निश्चिता । प्राकृतं तज्ज-तत्तुल्य-देश्यादिकमनेकधा।'
--काव्यालङ्कारे [ २, २ ] तथा चान्ये'प्रकृतेः संस्कृतायास्तु विकृतिः प्राकृती मता।'
-रूपकपरिभाषायाम् । ' तद्भवा संस्कृतभवा सिद्धा साध्येति सा द्विधा ।'
--षड्भाषाचन्द्रिकायाम् । इत्यादयोऽनेक उल्लेखा उपलभ्यन्ते । " चिन्त्यं खल्वेतत् सुसूक्ष्मचिन्तनशीलैः प्रेक्षावद्भिः, शाब्दिकानां सदाशयस्तै व सम्यग् व्यचारि वा नैव समवबोधीति ज्ञायते । संविदितं खलु लक्षणप्रवृत्तिलक्ष्यदर्शनपूर्विका भवति । लाक्षणिकैः शाब्दिकैः केवलं लक्ष्यदृष्टानां प्राक्सिद्धानामेव शब्दानामनुशासनं क्रियते । तैश्च व्युत्पित्सूनां तत्तद्भाषाशब्दज्ञानार्थ वर्णानुपूर्वीदाढ्याय च व्याकरणपद्धल्या प्रकृति-प्रत्यय-लोपागमादेश-वर्णविकारादिसूचनपूर्व पदान्वाख्यानं क्रियते । तदपि भिन्नभिन्नवैयाकरणैर्भिन्न-भिन्न प्रकारेण द्योत्यते । एवं शब्दशुद्धि-सिद्धिज्ञापने तदैव तथैव वा भाषाशब्दोत्पत्तिर्जातेति मन्तव्यं न चौचित्यमञ्चति । अद्यावधि भिन्न-भिन्नजनपदेषु प्रयुज्यमानाः सहस्रशोऽपि प्राकृताः शब्दाः वर्षसहस्रद्वयादपि प्राग्भवेषु जैनसिद्धान्तसूत्रेषु कथा-नाट्यप्रभृतिषु च प्रयुक्तास्तथैव किञ्चिदिव परावृत्ताश्च दृश्यन्ते ।
पाणिनीयभाष्यकारेण पतञ्जलिना यथा — सिद्धे शब्दार्थसम्बन्धे ' संस्कृतशब्दानामनुशासनप्रवृत्तिरसूचि तथैव प्राकृतशब्दानां सिद्धतां विचार्य तत्संसूचनाय शाब्दिकचण्डेन 'सिद्धं प्राकृतं त्रेधा ' इति सूत्रं प्राकृतलक्षणप्रारम्भे व्यरचि ।।
वररुचिनिजे प्राकृतप्रकाशे 'प्रकृतिः शौरसेनी ' [ १०, २; ११, २ ] 'शौरसेनी । प्रकृतिः संस्कृतम् ' [ १२, १, २ ] इत्यादीनि सूत्राणि निर्मितवान् । भामहेन च मनोरमायां तद्व्याख्येत्थमदर्शि-अस्याः पैशाच्याः प्रकृतिः शौरसेनी । स्थितायां शौरसेन्या पैशाचीलक्षणं प्रवर्तयितव्यम् । अस्या मागध्याः प्रकृतिः शौरसेनीति वेदितव्यम् ।' एवं हेमचन्द्राचार्यादिभिरपि प्राकृतस्य प्रकृतिः संस्कृतमित्युच्चारितेऽपि तथैव वेदितव्यं भवति-'स्थिते संस्कृते प्राकृतलक्षणं प्रवर्तयितव्यम् ' सिद्धां साध्यमानां च संस्कृतप्रकृतिमुपादाय तत्र प्रत्यय-लोपागम--वर्णविकारादेशादिविभागदर्शनेन लक्षणपद्धत्या लक्ष्यदृष्टानां सिद्धानां प्राकृतशब्दानां ज्ञानं कर्तव्यम् । संस्कृतभाषायामेतादृशः शब्दास्ते च प्राकृतभाषायामेतादृशः,तत्र चैतावान् भेद इति ज्ञातव्यमयमाशयः। न चैतावता प्राकृतभाषा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org