________________
ततो बाह्या येऽष्टत्रिंशद् वर्णास्तैः संस्कारे कृते संस्कृतं जातम् । ततश्च अनेके भाषाभेदा अभूवन् । तेन सकलशास्त्रमूलं मातृकारूपं माकृतमेव प्रथमम् । युगादौ सर्वज्ञैरिति लोकोपचा(का)राय प्रथमं प्राकृतमुपदिष्टम् । सर्वाक्षरसंनिपातलब्धीनां श्रीद्वादशाङ्गीनिर्माणसूत्रधाराणां श्रीगणधराणां सिद्धान्तमाकृतकरणे कारणमिदम्
'बाल --स्त्री-मूढ-मूर्खाणां नृणां चारित्रकाङ्क्षिणाम् ।
अनुग्रहार्थ तत्त्वज्ञैः सिद्धान्तः प्राकृतः कृतः ।। राजन् ! भाषा भवतु याऽपि साऽपि, परं तु परमार्थ एव विलोक्यते । यत् पठन्ति लोकाः -
'अत्थनिवेसो त चिय सद्दा त च्चेव परिणमंता वि ॥
उत्तिविसेसो कव्वं भासा जा होउ सा होउ ॥' परं कस्यापि ज्ञानलवदुर्विदग्धस्य खण्डखण्डपाण्डित्यतुण्डकण्डूकरालितस्येयं प्राकृतनिन्दा । यदुक्तम्
' सोहेइ सुहावेइ उवभुंजतो लयो वि लच्छीए । एसा(देवी) सरस्सई पु(उ)ण असमग्गा कं न(किंपि) विनडेइ ।'
[ गउडवहे गा. ६८] इति श्रुत्वा राजादयः सर्वेऽपि प्राकृतप्रशंसां कुर्वन्तो विशिष्य तदर्थश्रवणप्रवणा बभूवुः ॥"
-कुमारपालप्रबन्धे (वि सं. १ ४७५ वर्षे लि.पत्तनजैनभा० प्रतिप.८१)
कोचदावेदयान्त--" प्राकृतभाषा संस्कृतभाषाया विकृतिरूपा प्राकृतभाषा किम् संस्कृतभाषाया ततोऽपभ्रश्य समुत्पन्ना यतः शाब्दिकश्चण्डो निजे प्राकृतलक्षणे विकृतिरूपा?
" 'संस्कृतयोनि ' इति प्राकृतस्य प्रकारं लाक्षतवान् । तथा प्रतिष्ठितप्रामाणिकहेमचन्द्राचार्योऽपि निजे प्राकृतशब्दानुशासने ' अथ प्राकृतम् । [ ८, १, १ ] इत्यस्य स्वोपशव्याख्यायाम्-' प्रकृतिः संस्कृतम् । तत्र भवं तत आगतं वा प्राकृतम् । ' इति व्याख्यातवान् । एवमन्येऽप्यूचुः । यथा कविदण्डी'संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः । तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः।।'
__ --काव्यादर्श [ १, ३३ ] १ अर्थनिवेशः स एव शब्दास्त एव परिणमन्तोऽपि। उक्तिविशेषः काव्यं भाषा या भवतु सा भवतु॥ २ शोभते सुखयत्युपभुज्यमानो लवोऽपि लक्षायाः । एषा सरस्वती पुनरसममा कं न विनटयति॥ ३ ई. बी. कॉवेलप्रभृतिमहाशयाः प्राकृतप्रकाशप्रस्तावनाऽऽदिषु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org