________________
वि'. सं. ११२५ वर्षे नमिसाधुः .--.
" सकल जगज्जन्तूनां व्याकरणादिभिरनाहतसंस्कारः सहजो वचनप्राकृतस्य व्याख्या, नि. " I' व्यापारः प्रकृतिः, तत्र भवं सैव वा प्राकृतम् । 'आरिसवयणे सिद्धं
देवाणं अद्धमागहा वाणी' इत्यादिवचनाद् वा प्राक् पूर्व कृतं प्राक्कृतं बाल-महिलाऽऽदिसुबोधं सकलभाषानिबन्धनभूतं वचनमुच्यते । मेघनिर्मुक्तजलमिवैकस्वरूपं तदेव च देशविशेषात् संस्कारकरणाच्च समासादितविशेष सत् संस्कृताद्युत्तरविभेदानाप्नोति । अत एव शास्त्रकृता प्राकृतमादौ निर्दिष्टम् , तदनु संस्कृतादीनि ।
पाणिन्यादिव्याकरणोदितशब्दलक्षणेन संस्करणात् संस्कृतमुच्यते । तथा प्राकृतभाषैव किञ्चिद्विशेषलक्षणान्मागधिका भण्यते । तथा प्राकृतमेव किञ्चिद्विशेषात् पैशाचिकम् । म(शौ)रसेन्यपि प्राकृतभाषैव । तथा प्राकृतमेवापभ्रंशः"
--रुद्रटीयकाव्यालङ्कारटिप्पने [ २, १२ ] " को विनिन्देदिमां भाषां भारतीमुग्धभाषितम् । प्राकृतनिन्दा
यस्याः प्रचेतसः पुत्रो व्याकर्ता भगवान् ऋषिः ॥ परिहारः
प्राकृतं चाषेमेवेदं यद्धि वाल्मीकिशिक्षितम् । तदनाएं भवे(णे)द् यो वै प्राकृतः स्यात् स एव हि ॥"
--शम्भुरहस्ये [ प. १७, १८ ] " अन्यदा कोऽपि मत्सरी श्रीहेमसूरितेजोऽसहिष्णुरेकान्ते राजानमिदमवादीत्'देव ! प्रायः प्राकृतमेते पठन्ति सिद्धान्तोऽप्येतेषां प्राकृतमयः । तत् प्रभाते [5] श्रोतव्यमिदम् | ' संस्कृतं स्वर्गिणां भाषा' सैव महतां प्रत्यूष श्रोतव्या श्रेयस्करी चेति किमर्थ प्रथमं तच्छ्रवणं विधीयते ? ।'
एतदाकर्ण्य राजा विज्ञातभाषाभेदतत्त्वः किञ्चित् प्राकृते कृतादरस्तत्स्वरूपं श्रीगुरूणामकथयत् । श्रीगुरवः प्राहुः-अनुपासितसद्गुरुकुलस्य, अज्ञातवाङ्मयतत्त्वस्य कस्यापीदं वचः । राजन् ! अनेकधा भाषाभेदवैचित्र्येऽपि परं युगादौ प्रथमपुरुषेण ज्ञातत्रैलोक्यस्वरूपेण प्रथमं चतुर्दशस्वराष्टत्रिंशद्व्यञ्जनरूपा द्विपञ्चाशदक्षरप्रमाणा मातृकैवोपदिष्टा । सा च प्राकृतस्वरूपा सर्वप्राकृतलोकानामुपकारिणीति ।
१ ‘पञ्चविंशतिसंयुक्तरेकादशसमाशतैः। विक्रमात समतिकान्तः प्रावृषीदं समर्थितम् ॥'- रु.टि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org