________________
संस्कृता प्राकृता चेति भाषे प्राधान्यमहतः । तत्रापि संस्कृता तावद् दुर्विदग्धहृदि स्थिता ।। बालानामपि सद्बोधकारिणी कर्णपेशला । तथापि प्राकृता भाषा न तेषामपि भासते ॥"
-उपमितिभवप्रपञ्चाकथापीठे । संस्कृतकाव्यालङ्कार-च्छन्दोलक्षण-नाटकादिग्रन्थेषु पुरातनैः संस्कृतवदियः प्राकृतभाषायाः प्राकृतकाव्यस्य च प्राकृतभाषाऽपि समाश्रिता । तथा सुप्रसिद्धनपसातवाहन-दण्डि-वाक्पति
प्रशस्तत्वम् राज-राजशेखर-प्राकृतमञ्जरीकार-शम्भुरहस्यकार-भूषणभट्टतनयसिद्धर्षि-महेश्वरसूरि-जयवल्लभ-नमिसाधु-त्रिविक्रमदेवप्रभृतिभिर्भूरिभिर्भाषातत्त्ववेदिभिः प्राकृतभाषायाः प्राकृतकाव्यस्य च मधुरता मृदुता सरलता सर्वग्राह्यता सर्वोपकारिता हृदयङ्गमता च प्रोदघोषि । तथाहि सातवाहनः
" अमयं पाइयकव्वं पढिउं सोउं च जे न जाणति । प्राकृतकाव्यस्य माधुर्यम् ___ कामस्स तत्ततत्तिं कुणंति ते कह न लजंति ? ॥"
-गाथासप्तशत्याम् । जयवल्लभः--
"पोइयकव्वस्स नमो पाइयकव्वं च निम्मियं जेण ।
ताहं चिय पणमामो पढिऊण य जे विजाणंति ॥"-वजालग्गे। कविदण्डी
" महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः । सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयम् ॥"
-काव्यादर्श [ १,३४ ] प्राकृतमञ्जरीकारः--
" प्रसीदन्तु च वाचस्ता यासां माधुर्यमुच्छ्रितम् । प्राकृतच्छद्मना चक्रे कात्यायनमहाकविः ॥ अहो । तत् प्राकृतं हारि प्रियावक्त्रेन्दुसुन्दरम् । सूक्तयो यत्र राजन्ते सुधानिष्यन्दनिर्भराः ॥"
-प्राकृतमञ्जर्याम् ( प्राकृतप्रकाशवृत्तौ ) १ अमृतं प्राकृतकाव्यं पठितुं श्रोतुं च ये न जानते ।
कामस्य तत्त्वचिन्तां कुर्वन्ति ते कथं न लज्जन्ते ॥ २ प्राकृतकाव्याय नमः प्राकृतकाव्यं च निर्मितं येन । तांश्चैव प्रणमामः पठित्वा च ये विजानन्ति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org