________________
इति नाम्ना पप्रथे । कालक्रमेण वैयाकरणानां कृपया अपभ्रशभाषासज्ञयाऽप प्रासाद्ध प्राप । तानपि वैयाकरणनिबद्धानपभ्रंशभाषानियमानुलध्य प्रकृतिप्रवर्तमानो विविधजनपदभाषाव्यवहारः सामान्यसंज्ञया ' प्राकृत ' ' अपभ्रंश' इत्युच्यमानोऽपि विशिष्टतया तत्तद्देशभाषानाम्ना प्रसिद्धि जगाहे । एवं विचार्यमाणे कथञ्चिद् भेदेनापभ्रंशनामधेयेऽपि प्राकृताङ्गभूतत्वात् तेनातीवसाम्याच 'प्राकृतमेवापभ्रंशः' इति वचनं नानुचितं प्रतिभाति । प्राकृतस्य जिनवरैः प्राकृतभाषां सरलां सुगमां स्त्री-बाल-मन्दादिसर्वजनोपकृ
सत्कारः तिसमर्थी च विचार्य निजसिद्धान्तोऽर्थतस्तदद्वारैव प्रकाशितः । एतदर्थसंवादिकामिमामार्यामागमादुद्धृत्य प्रादर्शयद् वर्धमानसूरिः
" मुत्तूण द्रिहिवायं कालिय-उक्कालियंगसिद्धंतं ।
थी-बालवायणत्थं पाईअ(यय)मुइयं जिणवरेहिं ॥"-आचारदिनकरे [उ.१५] जिनवरैरिव तदनुचरैस्तत्त्वज्ञगणधरैरपि तथैव तद्विशेषोपकारितामवधार्य तत्रैव सूत्रतो जैनसिद्धान्तरचनाऽकारि । समुपलभ्यन्ते चैतत्समर्थका नैकशः संवादाः--
" बाल-स्त्री-मूढ( मन्द )-मूर्खाणां नृणां चारित्रकाङ्क्षिणाम् । ___ अनुग्रहार्थं तत्त्वज्ञैः सिद्धान्तः प्राकृतः स्मृ(कृ)तः ॥" उाद्भयते स्मेदं पद्य दशवैकालिकटीकायां [प.१० १] हरिभद्रसूरिणा, काव्यानुशासनटीकायां हेमचन्द्राचार्येण, तथा चान्यत्रान्यैरपि । जैनसिद्धान्तव्याख्यातृभिर्हरिभद्रसूरि-शीलाङ्काचार्याभयदेवसूरि-हेमचन्द्रसरि-श्रीचन्द्रसूरि-मलयगिरिप्रभृतिभिः सूत्रपद-शब्दशुद्विसिद्धिसूचनेऽसकृत् प्राकृतशैल्या प्राकृतलक्षणात् प्राकृतत्वाद् वेत्थमित्याधुच्चारितम् ।
राजशेखरसूरिः सं० १३८७ वर्षेऽनुवदति स्मेत्थं पूर्वपद्यम्" बाल-स्त्रयादिजडप्रायभव्यजन्तुहितेच्छया ।
प्राकृतागमकर्तृभ्यो गणभृद्भ्यो नमो नमः ॥"-प्राकृतद्वयाश्रयवृत्तौ । १ मुक्त्वा दृष्टिवाद कालिकोत्कालिकाङ्गसिद्धान्तम् । स्त्री-बालवाचनार्थ प्राकृतमुदितं जिनवरैः ॥ २ 'प्राकृतशैल्या बहुवचनम् , प्राकृतशैल्या चतुर्थ्यर्थे षष्ठी । उक्तं च
दुव्वयणे बहुवयणं छद्रीविहत्तीऍ भण्णइ चउत्थी ।
जह हत्था तह पाया णमो त्थु देवाहिदेवाणं ॥" " सप्तम्यन्तता चास्य-'ए होति अयारंते पयंमि बिइयाए बहुसु पुंलिंग ।
तइयासु छठी-सत्तमीण एगंमि महिलत्थे ॥' । अस्माल्लक्षणात् सिध्यति, एवमन्यत्रापि प्राकृतशैल्या इष्टविभक्त्यन्तता पदानामवगन्तव्येति।" -आवश्यकसूत्रवृत्ती, दशवकालिकसूत्रवृत्तौ च ( आ. समितिप्र० पृ. ११, ३२, १)
हरिभद्रसूरिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org