________________
७२
अपभ्रंशभाषा। भाषाभेदविवेचकैर्भाषासमुपासकैः संस्कृतशाब्दिकैरितरैश्च प्राज्ञैर्यस्या अपभ्रंश इति नाम परिकल्पितम्, कैश्चिच्च संस्कृतादपभ्रष्टेयमित्यादि यद्विषये प्रोद्घोषितम् ; तस्याः सर्वसाधारणजनोपकारिण्या वर्तमानानां भारतवर्षीयाणां प्रायोऽशेषार्यदेशभाषाणां जननीरूपायाः प्राकृतापभ्रंशभाषाया विषये वक्तव्यमत्र प्रकाश्यते । प्रसिद्धमहर्षिपतञ्जलिना प्ररूपितं खल्वेतत् पाणिनीयमहाभाष्ये [ १, १, १]
शब्दापशब्दानामनुशासनविचारे-" भूयांसोऽपशब्दाः, अल्पीयांसः अपभ्रंशस्य प्राकृते
त शब्दाः । एकैकस्य हि शब्दस्य बहवोऽपभ्रंशाः, तद्यथा गौरिसमावेशः
त्यस्य शब्दस्य गावी गोणी गोता गोपोतलिका इत्येवमादयोऽपभ्रंशाः।" एतावता च प्रकारान्तरेण प्रख्यापितं प्राकृतशब्दानामेवापभ्रंशत्वं प्राचुर्य च, यतस्त एव गावी-गोणी-प्रभृतयः शब्दाः प्राचीनजैनसिद्धान्तपुस्तकेषु बहुशः प्रयुक्ता दृश्यन्ते', चण्ड-हेमचन्द्रादिभिर्वैयाकरणैश्च निजे प्राकृतलक्षणे तेषां शब्दानां शुद्धता च निरदेशि।
तथा चापभ्रंशस्य लक्षणं प्रादार्श कविदाण्डना" आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृताः । - शास्त्रे तु संस्कृतादन्यदपभ्रंशतयोदितम् ॥"-काव्यादर्श [ १, ३६.] वि. सं. ११२५ वर्षे नमिसाधुश्च निर्दिशति स्म'तथा प्राकृतमेवापभ्रंश'-रुद्रटीयकाव्यालङ्कारस्य टिप्पने [ २, १२]
संस्कृतवैयाकरणैः संस्कृतशब्दानुशासनसिद्धात् संस्कृतादतिरिक्तं सर्वमप्यपभ्रंशमिति व्याहृतम् , तच्च प्रकृतिभवं प्राकृतमिति प्राकृतवैयाकरणौनियमितम् । एवं व्याकरण. वेलया नियन्त्रितेऽपि प्राकृतजनभाषाव्यवहारस्त्वनपेक्ष्य शब्दशास्त्रनियमान् यथेष्टं स्वच्छन्दं प्रावर्तत, न च नियन्त्रणमधिसेहेऽत एव स विदग्धानां प्रसादेन 'अपभ्रंश'
१ 'खीरीणियाओ गावीओ', 'गोणं वियालं'-आचाराने [ श्रु० २, उ० ४, ५] 'गावीए पुण दिण्णं तणं पि खीरत्तणमुवेइ । '-आवश्यकचूणौँ । 'गोणीणं संगेल्लं'-व्यवहारसूत्रे [ उ० ४] 'वच्छग गोणी खुज्जा०', 'गोणी चंदणकथा.'-आव० नि• [गा० १३३,१३६. ] 'एत्थं गोणीऍ दिलुतो । अप्पण्हुया उ गोणी । गोणिसरिच्छो उ गुरू ।' ।
-दशवैकालिकवृत्तौ [ पृ. ५ ] हरिभद्रसूरिणोद्धृतः पाठः । २ गोर गावी'-चण्डकृते प्राकृतलक्षणे [ २, १६ ] ‘गोणादयः'-सिद्धहेमचन्द्रशब्दानुशासने [ ८, २, १७४ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org