________________
सूरमभाभिषेका विवेकसेकातिरेकतश्छेकाः । प्रपुनन्तु श्रीमन्तस्ते मच्चित्तं सुधीमन्तः ॥"
-गणधरसार्धशतकबृहद्वृत्तौ (श्लो० १७, १८) जिनपालोपाध्यायसतीhनानेन सूरप्रभोपाध्यायेन स्तम्भतीर्थनगरे दिगम्बरवादियमदण्डो विजितः । चन्द्रतिलकोपाध्यायोऽस्य पार्श्वे विद्यानन्दं पठितवान्, यो वि. सं. १३१२ वर्षेऽभयकुमारचरितं व्यरचयत्
" सूरिं जिनेश्वरगुरुं जिनतीर्थयात्राऽभ्यायातसङ्घसहितं समरञ्जयद् यः । श्रीस्तम्भतीर्थनगरे वरजल्पकेलौ निर्जित्य वादियमदण्डादगम्बरेशम् ॥ स श्रीसूरमभसमभिधो बुद्धिधामाभिषेको ___ ज्ञाता नाम स्वमिव निखिला लक्षणाद्याश्च विद्याः । स्फायज्ज्यायस्त्वरितकवितानिर्मितौ ब्रह्मकल्पो विद्यानन्दं शिशुमिव भृशं हेलयाऽभाणयन्माम् ॥"
-अभयकुमारचरिते ( प्रश० श्लो. ३०, ३१ ) अस्य विदुषोऽन्यां कृति परिचितिं वा नैवोपलब्धुमपारयमिति विरमामि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org